________________
अमुमेवार्थं निर्युक्तिकारो गाथाद्वयेन आह—
[ नि० ]
स्वजनत्यागात् कषायादिछेदाः
[foto]
[श्रु०१ । अ०२ । उ०१ । नि०१९७]
संसारं छेत्तुमणो कम्मं उम्मूलए तयट्ठाए । उम्मूलेज्ज कैसाए तम्हा उ चएज्ज सयणादी ॥१९६॥
मायामेति पिया मे भगिणी भाया य पुत्तदारं मे । अत्थम्मि चेव गिद्धा जम्मण- मरणाणि पावंति ॥१९७॥ ॥ द्वितीयाध्ययने प्रथमोद्देशकः ॥
संसारं छेत्तुमणो गाहा, माया मे त्ति गाहा । संसारं नारक - तिर्यङ् - नरा - ऽमरलक्षणं माता-पितृ-भार्यादिस्नेहलक्षणं वा छेत्तुमनाः = उन्मुमूलयिषुः अष्टप्रकारं कर्म उन्मूलयेत् । तदुन्मूलनार्थं च तत्कारणभूतान् कषायान् उन्मूलयेत् । कषायापगमनाय च मातापित्रादिगतं स्नेहं जह्यात् ।
यतो माता- पित्रादिसंयोगाभिलाषिणः अर्थे रत्न- कुप्यादिके गृद्धाः-अध्युपपन्नाः जन्म-जरा-मरणादिकानि दुःखानि असुभृतः प्राप्नुवन्तीति गाथाद्वयार्थः ॥१९६-१९७॥ तदेवं कषायेन्द्रियप्रमत्तो माता- पित्राद्यर्थं अर्थोपार्जन - रक्षणतत्परो दुःखमेव केवलमवाप्नोति इत्याह
अहो इत्यादि । अहश्च सम्पूर्णं रात्रिं च चशब्दात् पैक्षं मासं च, निवृत्तशुभाध्यवसायः परिः-समन्तात् तप्यमानः परितप्यमानः सन् तिष्ठति । तद्यथा
64
'कइया वच्चइ सत्थो ? किं भंडं ? कत्थ ? 'कित्तियं भूमिं ? | विक्कालो ? निव्विस्सइ किं कहिं केण ? ॥" [
को
] इत्यादि ।
स च परितप्यमानः किम्भूतो भवति ? इति आह
कालेत्यादि । कालः- कर्तव्यावसरः, तद्विपरीतः अकालः, सम्यग् उत्थातुम्अभ्युद्यन्तुं शीलमस्य इति समुत्थायी इति पदार्थः । वाक्यार्थस्तु — काले कर्तव्यावसरे अकाले=तद्विपर्यासे समुत्तिष्ठते अभ्युद्यतमनुष्ठानं करोति तच्छीलश्च इति, कर्तव्यावसरे न करोति अन्यदा च विदधातीति । यथा वा काले करोति एवं अकालेऽपीति; यथा वाऽनवसरे न करोति एवं अवसरेऽपीति, अन्यमनस्कत्वाद् अपगतकाला-ऽकालविवेकः
टि० १. कसाया ख ज झ ञ ॥ २. केवलमनुभवतीत्याह ख च । केवलमाप्नोतीत्याह ग ङः ॥ ३. पक्षं च मासं ख ॥ ४. वा क ग ॥ ५. समुति (त्ति ? )ष्ठति क । समनुतिष्ठति ख ॥। ६. केत्तिया भूमी ? ख च ॥ ७ तद्विपर्यासः ख च ॥ ८. अकालेन ग च ॥ ९ ०पर्यासेन खआदर्श विना ॥
१८७