________________
गुणार्थिनां स्वरूपम् [श्रु०१। अ०२। उ०१ । सू०६३] यो गुणः शब्दादिकोऽसावेव संसारस्य कषायकारणत्वाद् मूलम्, स्थानमपि असावेवेति; एवमन्येष्वपि विकल्पेषु योज्यम् । विषयनिर्देशे च विषयी अपि आक्षिप्त:- यो गुणे वर्तते समूले स्थाने चेति; एवं सर्वत्र दृष्टव्यम् ।
इह च सर्वज्ञप्रणीतत्वाद् अनन्तार्थता सूत्रस्य अवगन्तव्या । तथा हि- मूलमंत्र कषायादिकं उपन्यस्तम्, कषायाश्च क्रोधादयश्चत्वारः, क्रोधोऽपि अनन्तानुबन्ध्यादिभेदेन चतुर्धा, अनन्तानुबन्धिनः अपि असङ्ख्येयलोकाकाशप्रदेशप्रमाणानि बन्धाध्यवसायस्थानानि अनन्ताश्च तत्पर्यायाः, तेषां च प्रत्येकं स्थान- गुणनिरूपणेन अनन्तार्थता सूत्रस्य सम्पद्यते; सा च छद्मस्थेन सर्वायुषाऽपि अविषयत्वा (द् वाचः क्रमवर्त्तित्वा) च्च अशक्या दर्शयितुम्, दिग्दर्शनं तु कृतमेव । अतोऽनया दिशा कुशाग्रीयशेमुष्या गुण-मूल-स्थानानां परस्परतः कार्य-कारणभावः संयोजना च कार्येति ।
तदेवं य एव गुणः स एव मूलस्थानम्; यदेव मूलस्थानं स एव गुण इत्युक्तम् । ततः किम्? इति, अत आह—
इति से गुणट्ठी महता परितावेण वसे पमत्ते । तं जहा - माता मे, पिता मे, भाया मे, भगिणी मे, भज्जा मे, पुत्ता मे, धूता मे, सुहा मे, सहि-सयण - संगंथ-संश्रुता मे, विवित्तोवकरण- परियट्टण- भोयणअच्छायणं मे ।
इति से गुणट्ठी महया इत्यादि । इति हेतौ यस्मात् शब्दादिगुणपरीत आत्मा कषायमूलस्थाने वर्तते, सर्वोऽपि च प्राणी गुणार्थी - गुणप्रयोजनी गुणानुरागीति; अतस्तेषां गुणानामप्राप्तौ प्राप्तिनाशे वा काङ्क्षा - शोकाभ्यां स प्राणी महता - अपरिमितेन, परि:समन्तात् तापः=परितापः, तेन शारीर- मानसस्वभावेन दुःखेनाभिभूतः सन् पौनःपुन्येन तेषु तेषु स्थानेषु वसेत्-तिष्ठेद् उत्पद्येत, किम्भूतः सन् ? प्रमत्तः प्रमादश्च राग- - द्वेषात्मकः, द्वेषश्च प्रायो न रागमृते । रागोऽपि उत्पत्तेः आरभ्य अनादिभवाभ्यासाद् माता-पित्रादिविषयो भवतीति दर्शयति
माया मे इत्यादि । तत्र मातृविषयो रागः संसारस्वभावाद् उपकारकर्तृत्वाद् वा उपजायते । रागे च सति 'मदीया माता क्षुत्-पिपासादिकां वेदनां मा प्रापदिति अतः कृषि-वाणिज्य–सेवादिकां प्राण्युपघातरूपां क्रियामारभते; तदुपघातकारिणि चे तस्यां वा अकार्यप्रवृत्तायां द्वेष उपजायते, तद्यथा - अनन्तवीर्यप्रसक्तायां रेणुकायां रामस्येति । एवं
टि० १. ०निरूपणे अनन्तार्थता ख च । ० निरूपणादनन्तार्थता ग । २. वा ख ॥
१८५