________________
[श्रु०१ । अ०२ । उ०१ । सू०६३] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
कामगुण इति । अथवा मूलं - मोहनीयं तद्भेदो वा कामः, तस्य स्थानं शब्दादिको गुणः । अथवा मूलं शब्दादिको विषयगणः, तस्य स्थानमिष्टा ऽनिष्टविषयगुणभेदेन व्यवस्थितो गुणरूपः संसार एव, आत्मा वा शब्दाद्युपयोगानन्यत्वाद् गुणः । अथवा मूलं - संसारः, तस्य शब्दादयः स्थानं कषाया वा, गुणोऽपि शब्दादिकः कषायपरिणतो वा आत्मा इति । यदि वा मूलं = संसारस्य शब्दादिकषायपरिणतः सन् आत्मा, तस्य स्थानं शब्दादिकम्, गुणोऽपि असावेव इति । ततश्च सर्वथा य एव गुणः स एव मूलस्थानं वर्त्तते ।
ननु च वर्तनक्रियायाः सूत्रे अनुपादानात् कथं आक्षेपः ? इति उच्यते - यत्र हि काचिद् विशेषक्रिया नैव उपादायि तत्र सामान्यक्रियां अस्ति भवति विद्यते वर्तत इत्यादिकां उपादाय वाक्यं परिसमाप्यते, एवमन्यत्रापि दृष्टव्यमिति ।
अथवा मूलम् इति आद्यं प्रधानं वा स्थानम् इति कारणम्, मूलं च तत् कारणं च इति विगृह्य कर्मधारयः; ततश्च य एव शब्दादिको गुणः स एव मूलस्थानं संसारस्य आद्यं प्रधानं वा कारणमिति, शेषं पूर्ववदिति ।
साम्प्रतं अनयोरेव गुण - मूलस्थानयोः नियम्य - नियामकभावं दर्शयन् तदुपात्तानां विषय-कषायादीनां बीजा-ऽङ्कुरन्यायेन परस्परतः कार्य-कारणभावं सूत्रेणैव दर्शयति—
'जे मूलट्ठाणे से गुणे' त्ति । यदेव संसारमूलानां कर्ममूलानां वा कषायाणां स्थानम्=आश्रयः शब्दादिको गुणोऽपि असावेव । अथवा कषायमूलानां शब्दादीनां यत् स्थानं=कर्म संसारो वा तत्तत्स्वभावापत्तेः गुणोऽपि असावेवेति । अथवा शब्दादिकषायपरिणाममूलस्य संसारस्य कर्मणो वा यत् स्थानं मोहनीयं कर्म शब्दादिकषायपरिणतो वा आत्मा तद्गुणावाप्तेः गुणोऽपि असावेव । यदि वा संसारकषायमूलस्य आत्मनो यत् स्थानं विषयाभिष्वङ्गः असावपि शब्दादिविषयत्वाद् गुणरूप एवेति ।
अत्र च विषयोपादानेन विषयिणोऽपि आक्षेपात् सूचनार्थत्वात् च सूत्रस्य इति एवमपि दृष्टव्यम्–यो गुणे गुणेषु वा वर्तते से मूलस्थाने मूलस्थानेषु वा वर्तते; यो मूलस्थानादौ वर्तते स एव गुणादौ वर्तत इति । य एव जन्तुः शब्दादिके प्राग्व्यावर्णितस्वरूपे गुणे वर्तते; स एव संसारमूलकषायादिस्थानादौ वर्तते । एतदेव द्वितीयसूत्रापेक्षया व्यत्ययेन प्राग्वदायोज्यम् । अनन्तगम-पर्यायत्वात् सूत्रस्य एवमपि दृष्टव्यम् - यो गुणः स एव मूलं स एव च स्थानम्, यद् मूलं तदेव गुणः स्थानमपि तदेव, यत् स्थानं तदेव गुणो मूलमपि तदेवेति, टि० १. शब्दादिको विषयगुणः च ॥ २. विषयगुणः ख च ॥ ३. स एव मूलस्थाने ग ॥ ४. वा ख- पुस्तके विना ॥
१८४