________________
शब्दादिकगुणाः संसारमूलस्थानम् [श्रु०१। अ०२। उ०१। सू०६३] भावकर्म पुनः अबाधां उल्लङ्घ्य स्वोदयेन उदीरणाकरणेन वा उदीर्णाः पुद्गलाः प्रदेश-विपाकाभ्यां भव-क्षेत्र-पुद्गल-जीवेषु अनुभावं ददतो भावकर्मशब्देन उच्यन्त इति । तदेवं नामादिनिक्षेपेण दशधा कर्म उक्तम् । इह तु समुदानकर्मोपात्तेन अष्टविधकर्मणाऽधिकार इति गाथाशकलेन दर्शयति
अट्टविहेण उ कम्मेण एत्थ होई अहीगारो त्ति । गाथार्धं कण्ठ्यमिति गाथाद्वेयपरमार्थः ॥१९४-९५॥
तदेवं सूत्रानुगमेन सूत्रे समुच्चारिते निक्षेपनियुक्त्यनुगमन प्रतिपदं निक्षिप्ते नामादिनिक्षेपे च व्याख्याते सति उत्तरकालं सूत्रं विव्रियते
__ जे गुणे से मूलट्ठाणे । अस्य च अनन्तर-परम्परादिसूत्रैः सम्बन्धो वाच्यः। तत्र अनन्तरसूत्रसम्बन्धः-'से हु मुणी परिण्णायकम्मे' [सू०६२] त्ति, स मुनिः परिज्ञातकर्मा भवति यस्य एतद् गुण-मूलादिकमधिगतं भवति । परम्परसूत्रसम्बन्धस्तु ‘से ज्जं पुण जाणेज्जा सह सम्मुइयाए परवागरणेणं अण्णेसिं वा सोच्चा' [सू०२] स्वसम्मत्या परव्याकरणेन तीर्थकरोपदेशाद् अन्येभ्यो वा आचार्यादिभ्यः श्रुत्वा जानीयात्=परिच्छिन्द्यात्, किं तद् ? इति, उच्यते-जे गुणे से मूलढाणे । आदिसूत्रसम्बन्धस्तु 'सुयं मे आउसंतेणं भगवया एवमक्खायं'[सू०१] किं तत् श्रुतं यद् भगवता आयुष्मता आख्यातम् ? इति, उच्यते-जे गुणे से मूलट्ठाणे । . य इति सर्वनाम प्रथमान्तं मागधदेशीवचनत्वाद् एकारान्तं सामान्योदेशार्थाभिधायीति । गुण्यते भिद्यते विशेष्यते अनेन द्रव्यमिति गुणः; स चेह शब्द-रूपरॅस-गन्ध-वर्ण-स्पर्शादिकः । स इति सर्वनाम प्रथमान्तं उद्दिष्टनिर्देशार्थाभिधायीति । मूलम् इति निमित्तं कारणं प्रत्यय इति पर्यायाः, तिष्ठन्ति अस्मिन्निति स्थानम्, मूलस्य स्थानं =मूलस्थानम् । “व्यवच्छेदफलत्वाद् वाक्यानाम्" इति न्यायाद् य एव शब्दादिकः कामगुणः स एव संसारस्य नारक-तिर्यङ्-नरा-ऽमरसंसृतिलक्षणस्य यद् मूलं कारणं कषायाः तेषां स्थानम् आश्रयो वर्तते, यस्माद् मनोज्ञेतरशब्दाधुपलब्धौ कषायोदयः, ततोऽपि संसार इति। अथवा मूलम् इति कारणम्, तच्च अष्टप्रकारं कर्म, तस्य स्थानं आश्रयः
टि० १. चोदीर्णाः क-गप्रती विना ॥ २. ०द्वयसमासार्थः ख ॥ ३. सहस्सम्मुइयाए क । सहस्सुइयाए ग । सहस्समुइयाए घ ङ॥ ४. सुच्चा घ ङ ।। ५. श्रुतं भगवता आयुष्मता यदाख्यातमिति ख ॥ ६. ०युष्मता व्याख्यातमिति घ ङ ।। ७. विशिष्यते ख च ॥ ८. ०रस-गन्ध-स्पर्शादयः ख च । रस-स्पर्श-गन्धादयः ग ।।
वि०टि० क "भव-क्षेत्र० इति भवविपाकिनीत्यादि" जै०वि०प० ॥
१८३