SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०१। नि०१९४-५] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् चलोवगरणत्ताए केवली नो संचाएति तेसु चेवागासपदेसेसुं हत्थं वा पायं वा पडिसाहरित्तए ।" [व्या०प्रज्ञ०५/४/१९८] तदेवं सूक्ष्मेतरगात्रसञ्चाररूपेण योगेन यत् कर्म बध्यते तद् ईर्यापथिकम्, ईर्याप्रभवं ईर्याहेतुकमित्यर्थः । तच्च द्विसमयस्थितिकम्, एकस्मिन् समये बद्धम्, द्वितीये समये वेदितम्, तृतीयसमये तदपेक्षया च अकर्मता इति । कथमिति ?, उच्यते-यतः तत् प्रकृतितः सातावेदनीयमकषायत्वात् स्थित्यभावेन बध्यमानमेव परिशटति, अनुभावतोऽनुत्तरोपपातिकसुखातिशायि, प्रदेशतः स्थूल-रूक्ष-शुक्लादि-बहुप्रदेशमिति । उक्तं च "अप्पं बायर मउयं बहुं च लुक्खं च सुक्किलं चेव । मंदं महव्वयं ति य सायाबहुलं च तं कम्मं ॥" [ ]. अल्पं स्थितितः, स्थितेरेवाभावात्, बादरं परिणामतः, अनुभावतो मृद्वनुभावम्, बहु प्रदेशैः, रूक्षं स्पर्शतः, वर्णेन शुक्लम्, मन्दं लेपतः स्थूलचूर्णमुष्टिमृष्टकुड्यापतितलेपवत्, महाव्ययमेकसमयेनैव सर्वापगमात्, साताबहुलम् अनुत्तरोपपातिकसुखातिशायीति । उक्तं ईर्यापथिकम् । अधुना आधाकर्म यद् आधाय=निमित्तत्वेनाश्रित्य पूर्वोक्तमष्टप्रकारमपि कर्म बध्यते तद् आधाकर्मेति; तच्च शब्द-स्पर्श-रस-रूप-गन्धादिकमिति । तथा हि- शब्दादिकामगुणविषयाभिष्वङ्गवान् सुखलिप्सुः मोहोपहतचेताः परमार्थासुखमयेष्वपि सुखाध्यारोपं विदधाति, तदुक्तम् "दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । उत्कीर्णवर्णपदपङ्क्तिरिवान्यरूपा, सारूप्यमेति विपरीतमतिप्रयोगात् ॥" [ एतदुक्तं भवति- कर्मनिमित्तभूता मनोज्ञेतरशब्दादय एव आधाकर्म इत्युच्यन्त इति । तपःकर्म- तस्यैव अष्टप्रकारस्य कर्मणो बद्ध-स्पृष्ट-निधत्त-निकाचितावस्थस्यापि निर्जराहेतुभूतं बाह्या-ऽऽभ्यन्तरभेदेन द्वादशप्रकारं तपःकर्म इति उच्यते । कृतिकर्म- तस्यैव कर्मण अपनयनकारकं अर्हत्-सिद्धा-ऽऽचार्योपाध्यायादिविषयं अवनामादिरूपमिति । टि० १. सूक्ष्मतरगात्र० क घ ।। २. चिय ख ॥ ३. बहु च बहुप्रदेशैः ख च ।। ४. उक्तं च घ ङ ।। ५. नियमेषु च दुःख० ख ।। ६. विपरीतगति० कपुस्तकाद्विना ॥ ७. ०पाध्यायविषय० क ग घ ङ। ०पाध्यायविषये अवनामादि० च ॥ १८२
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy