________________
विशेषावधिप्रत्युक्ता पञ्चमीविभक्तिः [श्रु०१। अ०२। उ०१। नि०१९४-५] ननु च तेभ्यो विशेषाधिका इत्यत्र निर्धारणे पञ्चमी, सा च "पञ्चमी विभक्ते" [पा०२।३।४२] इत्यनेन सूत्रेण विधीयते, अस्य च अयमर्थः- विभाग:-विभक्तं, तत्र पञ्चमी विधीयमाना यत्र अत्यन्तविभागः तत्रैव भवति, यथा माथुरेभ्यः पाटलिपुत्राः अभिरूपतराः । इह च कर्मपुद्गलानां सर्वदा एकत्वम्, तेथाविधानामेव च बुद्ध्या बहुप्रदेशादिगुणेन पृथक्करणं चिकीर्षितम्, तत्र षष्ठी सप्तमी वा न्याय्या, तद्यथा-गवां गोषु वा कृष्णा सम्पन्नक्षीरतमा इति ।।
नैष दोषः, यत्र अवधि-अवधिमतोः सामान्यवाची शब्दः प्रयुज्यते तत्रैव षष्ठी- । सप्तम्यौ “यतश्च निर्धारणम्" [पा०२/३/४१] इत्यनेन सूत्रेण विधीयेते, यथा गवां कृष्णा सम्पन्नक्षीरतमा, मनुष्येषु पाटलिपुत्रा आढ्यतराः, कर्मवर्गणापुद्गलानां वेदनीये बहुतरा इति । यत्र तु विशेषवाची शब्दोऽवधित्वेन उपादीयते तत्र पञ्चम्येव, यथा खण्डमुण्ड-शबल-शाबलेय-धवल-धावलेयव्यक्तिभ्यः कृष्णा सम्पन्नक्षीरतमा इति, अतो नात्र विभागः कारणमविभागो वा, यतो माथुर-पाटलिपुत्रकादिविभागेन विभक्तानामपि सामान्यमनुष्यादिशब्दोच्चारणे षष्ठी-सप्तम्यौ भवतः, यत्र तु पुनः माथुरादिविशेषोऽवधित्वेन उपादीयते तत्र कार्यवशाद् एकस्थानामपि पञ्चम्येव, तदिह सत्यपि कर्मवर्गणानामेकत्वे तद्विशेषस्य अवधित्वेन उपादानात् पञ्चम्येव न्याय्येति ।
तद्विशेषाधिका वेदनीये । उक्तः प्रदेशबन्धः, समुदानकर्म अपि इति । साम्प्रतं ईर्यापथिकम्
"ईर गति-प्रेरणयोः" [ ]अस्माद् भावे ण्यत्, ईरणम् ईर्या, तस्याः पन्थाः ईर्यापथः, तत्र भवम् ईर्यापथिकम् । कश्च ईर्यायाः पन्था भवति ? यदाश्रिता सा भवतीति, एतच्च व्युत्पत्तिनिमित्तम्, यतः तिष्ठतोऽपि तद् भवति । प्रवृत्तिनिमित्तं तु स्थित्यभावः, तच्च उपशान्त-क्षीणमोह-सेयोगिकेवलिनां भवति; संयोगिकेवलिनोऽपि हि तिष्ठतोऽपि सूक्ष्मगात्रसञ्चारा भवन्ति । उक्तं च
"केवली णं भंते ! अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा ओगाहित्ता णं पडिसाहरेज्जा, पभू णं भंते ! केवली तेसु चेवागासपदेसेसु पडिसाहरित्तए ? नो इणमढे समढे । कहं ? केवलिस्स णं चलाई सरीरोवगरणातिं भवंति,
टि० १. तथावस्थानामेव ख ग च ॥ २. ०सयोगकेवलिनां घ ङ ऋते ॥ ३. सयोगकेवलिनोऽपि ग घ ङ विना ।। ४. उग्गाहित्ता ख ।
वि०टि० ईर गतौ कम्पने च'-पा०धा० १०१८ । ईर प्रेरणे - कातन्त्र०धा०१०।२६२ ।।