SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०१। नि०१९४-५] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् सप्तभागौ पल्योपमस्य असङ्ख्येयभागन्यूनौ अन्तर्मुहूर्त्तमबाधा, आहारक-तदङ्गोपाङ्गतीर्थकरनाम्नां सागरोपमकोटाकोटी भिन्ना अन्तर्मुहूर्तमबाधा । ननु च उत्कृष्टोऽपि एतावन्मात्र एव अभिहितः ततः को अनयोः भेदः ? इति, उच्यते-उत्कृष्टात् सङ्ख्येयगुणहीनो जघन्य इति । यश:कीर्ति-उच्चैर्गोत्रयोरष्ट मुहूर्तानि अन्तर्मुहूर्तमबाधा, देव-नारकायुषोः दश वर्षसहस्राणि अन्तर्मुहूर्त्तमबाधा, तिर्यङ्-मनुजायुषोः क्षुल्लकभवः, अन्तर्मुहूर्तमबाधेति, बन्धन-सङ्घातयोरौदारिकादिशरीरसहचरितत्वात् तद्गत एवोत्कृष्ट-जघन्यभेदोऽवगन्तव्य इति । उक्तः स्थितिबन्धः । अनुभावबन्धस्तु उच्यते तत्र शुभा-ऽशुभानां कर्मप्रकृतीनां प्रयोगकर्मणा उपात्तानां प्रकृति-स्थितिप्रदेशरूपाणां तीव्र-मन्दानुभावतया अनुभवनं अनुभावः । स च एक-द्वि-त्रि-चतु:स्थानभेदेन अवगन्तव्यः । तत्र अशुभप्रकृतीनां कोशातकीरससमक्वाथ्यमान-अर्ध-त्रिभाग-पादावशेषतुल्यतया तीव्रानुभावोऽवगन्तव्यः; मन्दानुभावस्तु जातिरसैक-द्वि-त्रि-चतुर्गुणोदकप्रक्षेपास्वादतुल्यतया इति । शुभानां तु क्षीरेक्षुरसदृष्टान्तः पूर्ववद् योजनीयः । अत्र च । कोशातकीक्षुरसादौ उदकपरमाण्वादिप्रक्षेपाद् व्यत्ययाद् वा भेदानां आनन्त्यं अवसेयमिति । अत्र च आयूंषि भवविपाकीनि, आनुपूर्व्यः क्षेत्रविपाकिन्यः, शरीर-संस्थाना-ऽङ्गोपाङ्ग-... सङ्घात-संहनन-वर्ण-गन्ध-रस-स्पर्शा-ऽगुरुलघु-उपघात-पराघात-(उच्छास)-उद्द्योताऽऽतप-निर्माण-प्रत्येक-साधारण-स्थिरा-ऽस्थिर-शुभा-ऽशुभरूपाः पुद्गलविपाकिन्यः; शेषास्तु ज्ञानावरणादिका जीवविपाकिन्य इति । उक्तोऽनुभावबन्धः । प्रदेशबन्धस्तु एकविधादिबन्धकापेक्षया भवति । तत्र यदा एकविधं बध्नाति तदा प्रयोगकर्मणा एकसमयोपात्ताः पुद्गलाः सातावेदनीयभावेन विपरिणमन्ते । षड्विधबन्धकस्य तु आयु:-मोहनीयवर्जः षोढा, सप्तविधबन्धकस्य सप्तधा, अष्टविधबन्धकस्य अष्टधा इति । तत्र आद्यसमयप्रयोगोपात्ताः पुद्गलाः समुदानेन द्वितीयादिसमयेषु अल्पबहुप्रदेशतया अनेन क्रमेण व्यवस्थापयति-तत्र आयुषः स्तोकाः पुद्गलाः, तद्विशेषाधिका: प्रत्येकं नाम-गोत्रयोः परस्परं तुल्याः, तद्विशेषाधिकाः प्रत्येकं ज्ञान-दर्शनावरणाऽन्तरायाणाम्, तेभ्यो विशेषाधिका मोहनीये । टि० १. ०कोटीकोटि: ख ग च ॥ २. ०रौदारिकशरीर० क ।। ३. अनुगन्तव्यः च ॥ ४. उदकबिन्द्वादि च ॥ ५. ०बन्धापेक्षया ख ॥ ६.०प्रयोगात्ताः ख च ग घ ङ॥ ७. परस्परतस्तु तुल्याः ख च ॥ वि०टि० क "जातिरसः सहजरसः" स०वि०प० ।। # “परमाणवः बिन्दवः" जै०वि०प० ॥ 2 "व्यत्ययाद् इति न जलनिक्षेप: किन्तु आवर्तनम्' जै०वि०प० ॥ १८०
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy