________________
स्थितिबन्धनिरूपणम् [श्रु०१। अ०२। उ०१। नि०१९४-५] तैजस-कार्मण-हुण्डसंस्थाना-ऽन्त्यसंहनन-वर्ण-गन्ध-रस-स्पर्श-नरकानुपूर्वी-तिर्यगानुपूर्वीअगुरुलघु-उपघात-पराघात-उच्छासा-5ऽतप-उद्योता-ऽप्रशस्तविहायोगति-त्रस-स्थावरबादर-पर्याप्तक-प्रत्येका-ऽस्थिरा-ऽशुभ-दुर्भग-दुःस्वरा-ऽनादेया-ऽयश:कीति-नीचैर्गोत्रनिर्माणरूपाणां त्रिचत्वारिंशत उत्तरप्रकृतीनां विंशतिः, पुंवेद-हास्य-रति-देवगत्यानुपूर्वीद्वयाऽऽद्यसंस्थान-संहनन-प्रशस्तविहायोगति-स्थिर-शुभ-सुभग-सुस्वरा-ऽऽदेय-यश:कीर्तिउच्चैर्गोत्ररूपाणां पञ्चदशानां उत्तरप्रकृतीनां दश, न्यग्रोधसंस्थान-द्वितीयसंहननयोादश, तृतीयसंस्थान-नाराचसंहननयोश्चतुर्दश, कुब्जसंस्थाना-ऽर्धनाराचसंहननयोः षोडश, वामनसंस्थान-कीलिकासंहनन-द्वि-त्रि-चतुरिन्द्रियजाति-सूक्ष्मा-ऽपर्याप्तक-साधारणानां अष्टानां उत्तरप्रकृतीनां अष्टादश, आहारक-तदङ्गोपाङ्ग-तीर्थकरनाम्नां सागरोपमकोटीकोटि: भिन्ना अन्तर्मुहूर्तमबाधा, देव-नारकायुषोः औघिकवत्, तिर्यङ्-मनुष्यायुषः पल्योपमत्रयं पूर्वकोटीत्रिभागोऽबाधा ।
उक्त उत्कृष्टः स्थितिबन्धः । जघन्य उच्यते
मत्यादिपञ्चक-चक्षुर्दर्शनाद्यावरणचतुष्क-सञ्चलनलोभ-दानाद्यन्तरायपञ्चकभेदानां पञ्चदशानां अन्तर्मुहूर्तं अन्तर्मुहूर्तमेव अबाधा, निद्रापञ्चका-ऽसातावेदनीयानां षण्णां सागरोपमस्य त्रयः सप्तभागा: पल्योपमासङ्ख्येयभागन्यूनाः, सातावेदनीयस्य द्वादश मुहूर्ताः अन्तर्मुहूर्तमबाधा, मिथ्यात्वस्य सागरोपमं पल्योपमासङ्ख्येयभागन्यूनम्, आद्यकषायद्वादशकस्य चत्वारः सप्तभागाः सागरोपमस्य पल्योपमासङ्ख्येयभागन्यूनाः, सञ्चलनक्रोधस्य मासद्वयम्, मानस्य मासः, तदधैं मायायाः, पुंवेदस्य अष्टौ संवत्सराः, सर्वत्र अन्तर्मुहूर्त्तमबाधा, शेषनोकषाय-मनुष्य-तिर्यग्गति-पञ्चेन्द्रियजाति-औदारिक-तदङ्गोपाङ्गतैजस-कार्मण-षट्संस्थान-षट्संहनन-वर्ण-गन्ध-रस-स्पर्श-तिर्यङ्-मनुजानुपूर्वी-अगुरुलघुउपघात-पराघात-उच्छास-ऽऽतप-उद्योत-प्रशस्ता-ऽ प्रशस्त-विहायो गतियश:कीर्तिवर्जप्रसादिविंशतिकर्म-निर्माण-नीचैर्गोत्र-देवगत्यानुपूर्वीद्वय-नरक-गत्यानुपूर्वीद्वयवैक्रियशरीर-तदङ्गोपाङ्गरूपाणां अष्टषष्ट्युत्तरप्रेकृतीनां सागरोपमस्य द्वौ सप्तभागी पल्योपमासङ्ख्येयभागन्यूनौ अन्तर्मुहूर्तमबाधा, वैक्रियषट्कस्य तु सागरोपमसहस्रस्य द्वौ -
टि० १. नीचैर्गोत्राणां द्विषष्ट्युत्तरप्रकृतीनां सागरो० क घ ङ ॥ २. ०प्रकृतीनां देवद्विकनरकद्विक-वैक्रियद्विका-ऽऽहारकद्विक-यश:कीर्ति-तीर्थकरनामरहितानां शेषनामप्रकृतीनाम्, तथा नीचैर्गोत्रस्य चेत्यासामुत्तरप्रकृतीनां सागरोपमस्य द्वौ च ॥
वि०टि० + "भिन्ना इति प्रदेशरीत्या वेदनं भिन्नपूर्वकोटिं यावत् भवत्रये साक्षाद दलिकवेदनम्" जै०वि०प० ॥ $ “आयुषोः इति त्रयस्त्रिंशत्" जै०वि०प० ॥