________________
उत्तरप्रकृतिभेदाः [श्रु०१। अ०२। उ०१। नि०१९४-५] अनन्तानुबन्धि-मिथ्यात्वादिभेदात्, बन्धतस्तु पञ्चधा । चारित्रमोहनीयं द्वादशकषायनवनोकषायभेदाद् एकविंशतिविधम् । अत्रापि मिथ्यात्वं सञ्चलनवर्जा द्वादशकषायाश्च । सर्वघातिन्यः; शेषास्तु देशघातिन्य इति । आयुष्कं चतुर्धा नारकादिभेदात् । नाम द्विचत्वारिंशद्भेदं गत्यादिभेदात्, त्रिनवतिभेदं च उत्तरोत्तरप्रकृतिभेदात् । गतिश्चतुर्धा, जातिरेकेन्द्रियादिभेदात् पञ्चधा, शरीराणि औदारिकादिभेदात् पञ्चधा, औदारिक-वैक्रियाऽऽहारकभेदाद् अङ्गोपाङ्गं त्रिधा, निर्माणनाम सर्वजीवशरीरावयवनिष्पादकं एकधा, बन्धननाम औदारिकादिकर्मवर्गणैकत्वापादकं पञ्चधा, सङ्घातनाम औदारिकादिकर्मवर्गणारचनाविशेषसंस्थापकं पञ्चधा, संस्थाननाम समचतुरस्रादि षोढा, संहनननाम वज्रऋषभनाराचादि षोठैव, स्पर्शोऽष्टधा, रसः पञ्चधा, गन्धो द्विधा, वर्णः पञ्चधा, आनुपूर्वी नरकादिश्चतुर्धा, विहायोगतिः प्रशस्ता-ऽप्रशस्तभेदाद् द्विधा, अगुरुलघु-उपघात-पराघातआतप-उद्द्योत-उच्छास-प्रत्येक-साधारण-स-स्थावर-शुभा-ऽशुभ-सुभग-दुर्भग-सुस्वरदुःस्वर-सूक्ष्म-बादर-पर्याप्तका-ऽपर्याप्तक-स्थिरा-ऽस्थिरा-ऽऽदेया-ऽनादेय-यश:कीर्तिअयश:कीर्ति-तीर्थकरनामानि प्रत्येकं एकविधानीति । गोत्रं उच्च-नीचभेदाद् द्विधा । अन्तरायं दान-लाभ-भोग-उपभोग-वीर्यभेदात् पञ्चधेति । उक्तः प्रकृतिबन्धः । बन्धकारणानि तु गाथाभिरुच्यन्ते
"पडिणीयमंतराइय उवघाए तप्पओस निण्हवणे । आवरणदुंगं भूओ बंधइ अच्चासणाए य ॥ भूयाणुकंप-वय-जोगउज्जओ खंति-दाण-गुरुभत्तो । बंधइ भूओ सायं विवरीए बंधए इयरं ॥ अरहंत-सिद्ध-चेइय-तव-सुय-गुरु-संघ-साहुपडणीओ । बंधइ दंसणमोहं अणंतसंसारिओ जेण ॥ तिव्वकसातो बहुमोहपरिणओ राग-दोससंजुत्तो । बंधइ चरित्तमोहं दुविहं पि चरित्तगुणघाइ ॥ मिच्छट्टिी महरंभपरिगहो तिव्वलोभ णिस्सीलो ।
निरयाउयं निबंधड़ पावमई रोट्रपरिणामो ॥
टि० १. ०दिभेदात् षो० ख ॥ २. ०दिभेदात् षो० ख ॥ ३. ०स्थिरत्वा-ऽऽदे० च ॥ ४. ०लाभ-वीर्य-भोग-उपभोगभेदात् ख ॥ ५. उवघाइय तप्प० ख ।। ६. ०दुगं बंधइ भूओ अच्चा० ग विना ।। ७. ०परिगओ क ॥ ८. मस्सीलो क ।।
वि०टि० # "पञ्चधि(धा?) रि(इ)ति सम्यक्त्व-मिश्रयोर्बन्धाभावात्" जै०वि०प० ॥
१७७