SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०१। नि०१९४-५] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् ___ मनोयोगः सत्या-ऽसत्य-मिश्रा-ऽनुभयरूपश्चतुर्धा, एवं वाग्योगोऽपि, काययोगः सप्तधा औदारिक-औदारिकमिश्र-वैक्रिय-वैक्रि यमिश्रा-ऽऽहारका-ऽऽहारकमिश्रकार्मणयोगभेदात् । तत्र मनोयोगो मनःपर्याप्त्या पर्याप्तस्य मनुष्यादेः । वाग्योगो द्वीन्द्रियादीनाम् । औदारिक-योगः तिर्यङ्-मनुजयोः शरीरपर्याप्तेः ऊर्ध्वम् । तदारतस्तु मिश्रः, केवलिनो वा समुद्घातगतस्य द्वितीय-षष्ठ-सप्तमसमयेषु । वैक्रियकाययोगो देवनारक-बादरवायूनाम्, अन्यस्य वा वैक्रियलब्धिमतः । तन्मिश्रस्तु देव-नारकयोरुत्पत्तिसमये, अन्यस्य वा वैक्रियं निवर्तयतः । आहारककाययोगश्चतुर्दशपूर्वविद आहारकशरीरस्थस्य । तन्मिश्रस्तु निर्वर्तना-काले । कार्मणयोगो विग्रहगतौ केवलिसमुद्घाते वा तृतीय-चतुर्थपञ्चमसमयेषु इति । तदनेन पञ्चदशविधेनापि योगेन आत्मा अष्टौ प्रदेशान् विहाय उत्तप्तभाजनोदकवद् उद्वर्तमानैः सर्वैरेव आत्मप्रदेशैः आत्मप्रदेशावष्टब्धाकाशदेशस्थं कार्मणशरीरयोग्यं कर्मदलिकं यद् बध्नाति तत् प्रयोगकर्ता इत्युच्यते । उक्तं च- .. "जाव णं एस जीवे एयइ वेयइ चलइ फंदईत्यादि ताव णं अट्टविहबंधए वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा, नो णं अबंधए ।" [व्या०प्रज्ञ०३/४/१५२] समुदानकर्म- सम्पूर्वात् आफूर्वात् च ददातेः ल्युडन्तात् पृषोदरादिपाठेन आकारस्य उकारादेशेन रूपं भवति । तत्र प्रयोगकर्मणा एकरूपतया गृहीतानां कर्मवर्गणानां सम्यग् = मूल-उत्तरप्रकृति-स्थिति-अनुभव-प्रदेशबन्धभेदेन आङ् =मर्यादया देशसर्वोपघातिरूपतया तथा स्पृष्ट-निधत्त-निकाचितावस्थया च स्वीकरणं समुदानम्, तदेव कर्म-समुदानकर्म । तत्र मूलप्रकृतिबन्धः ज्ञानावरणीयादिः । उत्तरप्रकृतिबन्धस्तु उच्यते उत्तरप्रकृतिबन्धो ज्ञानावरणीयं पञ्चधा मति-श्रुता-ऽवधि-मन:पर्यायकेवलावरणभेदात् । तत्र केवलावारकं सर्वघाति; शेषाणि देशघातीन्यपि । दर्शनावरणीयं नवधा निद्रापञ्चकदर्शनचतुष्टयभेदात् । तत्र निद्रापञ्चकं प्राप्तदर्शनलब्ध्युपयोगोपघातकारि; दर्शनचतुष्टयं तु दर्शनलब्धिप्राप्तेरेव । अत्रापि केवलदर्शनावरणं सर्वघाति; शेषाणि तु देशतः । वेदनीयं द्विधा साता-ऽसातभेदात् । मोहनीयं द्विधा दर्शन-चारित्रभेदात् । तत्र देर्शनमोहनीयं सप्तधा टि० १. शेषाणि सर्वाणि तु देश ख ॥ २. देश-सर्वघातीन्यपि ग च ॥ ३. दर्शनमोहनीयं त्रिधा-मिथ्यात्वादिभेदात्, बन्धतस्त्वेकविधम् । चारित्रमोहनीयं षोडशकषाय-नवनोकषायभेदात् पञ्चविंशतिविधम् । अत्रापि ख च, "पाठान्तरे-दर्शनमोहनीयं सप्तधा-अनन्तानुबन्धिमिथ्यात्वादिभेदात्, बन्धतस्तु पञ्चधा । चारित्रमोहनीयं द्वादशकषाय-नवनोकषायभेदाद् एकविंशतिविधम् ।" खपुस्तके टिप्पणी ॥ १७६
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy