________________
वर्गणास्वरूपनिरूपणम् [ श्रु०१ । अ०२ । उ०१ । नि०९९४ -५] जघन्योत्कृष्टभेदा अध्रुववर्गणाः, अध्रुवत्वाद् अध्रुवाः, पाक्षिकसद्भावाद् अध्रुवत्वम्, जघन्योत्कृष्टभेदोऽनन्तरोक्त एव । तदुत्कृष्टोपरि रूपादिप्रवृद्ध्या जघन्योत्कृष्टभेदा अनन्ता एव शून्यवर्गणा भवन्ति, जघन्योत्कृष्टविशेषः पूर्ववत्, तासां संसारेऽप्यभावात् शून्यवर्गणा इत्यभिधानम् । एतदुक्तं भवति - अध्रुववर्गणोपरि प्रदेशवृद्ध्याऽनन्ता अपि न सम्भवन्तीति प्रथमा शून्यवर्गणा ।
तदुपरि रूपादिवृद्ध्या जघन्योत्कृष्टभेदाः प्रत्येकशरीरवर्गणा भवन्ति, जघन्यातः क्षेत्रपल्योपमासङ्ख्येयभागगुणोत्कृष्टा । तदुपरि रूपोत्तरादिवृद्ध्या जघन्योत्कृष्टभेदा अनन्ता एव शून्यवर्गणा भवन्ति, जघन्यवर्गणातः उत्कृष्टा तु असङ्ख्येयैलोकासङ्ख्येयभागप्रदेशगुणा, तदसङ्ख्येयभागोऽपि असङ्ख्येर्यलोकात्मक इति द्वितीया शून्यवर्गणा । तदुपरि रूपादिवृद्ध्या बादरनिगोदशरीरवर्गणा, जघन्यातः क्षेत्रपल्योपमासङ्ख्येयभागप्रदेशगुणोत्कृष्टा । तदुपरि रूपादिवृद्धया जघन्योत्कृष्टभेदा तृतीया शून्यवर्गणा, उत्कृष्टा जघन्यातः असङ्ख्येयगुणा । को गुणकारः ? इति उच्यते- (अङ्गुलासङ्ख्येयभागप्रदेशराशेः आवलिकाकालासङ्ख्ये य भागसमयप्रमाणकृतपौनःपुन्यवर्गमूलस्य असङ्ख्येयभागप्रदेशप्रमाण इति ।
तदुपरि रूपोत्तरवृद्धया जघन्योत्कृष्टभेदा सूक्ष्मनिगोदशरीरवर्गणा, जघन्यातः उत्कृष्टा आवलिकाकालासङ्ख्येयभागसमयगुणा । तदुपरि रूपोत्तरवृद्ध्या जघन्योत्कृष्टभेदा चतुर्थी शून्यवर्गणा, जघन्यातः उत्कृष्टा चतुरस्रीकृतलोकस्य असङ्ख्येयाः श्रेण्यः, ताश्च प्रतरासङ्ख्येयभागतुल्या इति ।
तदुपरि रूपादिवृद्ध्या जघन्योत्कृष्टभेदा महास्कन्धवर्गणा, जघन्यातः उत्कृष्टा क्षेत्रपल्योपमस्य असङ्ख्येयगुणा सङ्ख्येयगुणा “वेति । उक्ताः समासतो वर्गणाः, विशेषार्थिना तु कर्मप्रकृतिरवलोकनीयेति ।
साम्प्रतं प्रयोगकर्म, वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येण आत्मना प्रकर्षेण युज्यत इति प्रयोगः । स च मनो- वाक्- कायलक्षणः पञ्चदशधा । कथम् ? इति उच्यते - तत्र
टि० १. ०त्कृष्टभेदभिन्ना अध्रु० ङ ॥ २. ०त्कृष्टभेदः पू० ख ॥। ३. ०भागप्रदेशगुणो० गङ च ॥ ४. ० वर्गणा तदुत्कृष्टा क ॥ ५. ०यभाग० घ च ।। ६. ० यप्रदेशात्मक इति ग ।। ७. रूपोत्तरादिवृद्ध्या ग॥ ८. ०प्रदेशपरिमाण ख ॥ ९ ०लसङ्ख्येय० घ ङ ॥ १०. चेति क ख ग ॥
वि०टि० p "शून्यवर्गणा इति परिणामपरिणताः कदाचिन्न प्राप्यन्ते" जै०वि०प० ॥ ⊕ कर्मप्रकृतौ तु गुणाकारोऽसङ्ख्येयगुण एव दर्शित इत्यवधेयम्; दृश्यतां बन्धनकरणं गा०२०|| 4 दृष्टव्यं कर्मप्रकृतौ बन्धनकरणं गा०१८-२० ॥
१७५