________________
[श्रु०१। अ०२। उ०१। नि०१९४-५] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
तैजसोत्कृष्टवर्गणोपरि रूपे प्रक्षिप्ते सत्यग्रहणवर्गणा भवन्ति । एवं एकादिवृद्ध्या उत्कृष्टान्ता अनन्ताः,ताश्च अतिसूक्ष्मत्वाद् बहुप्रदेशत्वाच्च तैजसस्य अग्रहणयोग्याः, बादरत्वाद् अल्पप्रदेशत्वाच्च भाषाद्रव्यस्य अपीति । जघन्योत्कृष्टयोरनन्तगुणत्वेन विशेषः, गुणकारश्च अभव्येभ्यो अनन्तगुणः सिद्धानामनन्तभाग इति । तस्यां योग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते जघन्या भाषाद्रव्यवर्गणा भवति । तस्याश्च प्रदेशवृद्ध्या उत्कृष्टवर्गणापर्यन्तानि अनन्तानि स्थानानि भवन्ति । जघन्योत्कृष्टयोः विशेषो जघन्यवर्गणानन्तभागाधिकोत्कृष्टवर्गणा भवति । अत्रापि अनन्तभागस्य अनन्तपरमाण्वात्मकत्वाद् भाषाद्रव्ययोग्यवर्गणानां आनन्त्यं अवसेयम् ।
___ तदनेन एकादिप्रदेशवृद्धिप्रक्रमेण अयोग्यवर्गणानां जघन्योत्कृष्टादिकं ज्ञातव्यम्, नवरं जघन्योत्कृष्टयोः भेदोऽयम्-अभव्यानन्तगुणः सिद्धानन्तभागात्मकः । तासां च पूर्वहेतुकदम्बकादेव भाषाद्रव्या-ऽऽनापानद्रव्ययोः अयोग्यत्वमवसेयम् । अयोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते आनापानवर्गणा जघन्या । ततो रूपोत्तरवृद्धया उत्कृष्टवर्गणान्ता अनन्ता भवन्ति । जघन्यातः उत्कृष्टा जघन्यानन्तभागाधिका ।
तदुपरि रूपोत्तरवृद्ध्या जघन्योत्कृष्टभेदेन अग्रहणवर्गणा, विशेषस्तु अभव्येभ्यो अनन्तगुणः सिद्धानामनन्तभागः । पुनरपि अयोग्योत्कृष्टवर्गणोपरि प्रेदेशादिवृद्ध्या जघन्योत्कृष्टभेदा मनोद्रव्यवर्गणा, जघन्यवर्गणानन्तभागो विशेषः ।
पुनरपि प्रेदेशोत्तरवृद्ध्या क्रमेण अग्रहणवर्गणा, विशेषश्च अभव्यानन्तगुणादिकः । ताश्च प्रदेशबहुत्वाद् अतिसूक्ष्मत्वाच्च मनोद्रव्यायोग्याः, अल्पप्रदेशत्वाद् बादरत्वाच्च कार्मणस्यापि । तदुपरि रूपे प्रक्षिप्ते जघन्याः कार्मणशरीरवर्गणाः । पुनरपि एकैकप्रदेशवृद्ध्या वर्धमाना उत्कृष्टां यावदनन्ता भवन्ति । अथ जघन्योत्कृष्टयोः कः प्रतिविशेषः ? इति उच्यतेजघन्यवर्गणानन्तभागाधिकोत्कृष्टवर्गणा, स च अनन्तभागो अनन्तानन्तपरमाण्वात्मकः अत एव अनन्तानन्तभेदभिन्नाः कर्मद्रव्यवर्गणा एवं भवन्ति । आभिश्च अत्र प्रयोजनम्, द्रव्यकर्मणो व्याचिख्यासितत्वादिति ।
शेषा अपि वर्गणाः क्रमायाता विनेयजनानुग्रहार्थं व्युत्पाद्यन्ते
पुनरपि उत्कृष्टकर्मवर्गणोपरि रूपादिप्रक्षेपेण जघन्योत्कृष्टभेदभिन्ना ध्रुववर्गणाः, जघन्याभ्य उत्कृष्टाः सर्वजीवेभ्योऽनन्तगुणाः । तदुपरि रूपप्रक्षेपादिक्रमेण अनन्ता एव
टि० १. ०प्रदेशविधिप्रक्रमणा० क ॥ २. प्रदेशवृद्धया ग ॥ ३. प्रदेशोत्तरक्रमेणा० खप्रतिमृते ॥ ४. एवानन्तभेद० ग च ।। ५. ०म्, कर्मद्रव्यस्या[ ?स्य ] व्याचि० ग ॥
१७४