________________
पुद्गलवर्गणास्वरूपम् [श्रु०१। अ०२। उ०१। नि०१९४-५] औदारिकयोग्योत्कृष्टवर्गणां यावदनन्ता भवन्ति । अथ जघन्योत्कृष्टयोः को विशेषः ?, ..... जघन्यातः उत्कृष्टा विशेषाधिकाः, विशेषस्तु अस्या एव औदारिकजघन्यवर्गणाया अनन्तभागः, तस्य चानन्तपरमाणुमयत्वाद् एकैकोत्तरप्रदेशोपचये सत्यपि औदारिकयोग्यवेर्गणानां जघन्योत्कृष्टमध्यवर्तिनीनां आनन्त्यम् ।।
तत औदारिकयोग्योत्कृष्टवर्गणायां रूपप्रक्षेपेण अयोग्यवर्गणा जघन्या भवति, एताः अपि एकैकप्रदेशवृद्ध्या उत्कृष्टान्ता अनन्ता भवन्ति । जघन्योत्कृष्टवर्गणानां को विशेषः ?, जघन्याभ्योऽसङ्ख्येयगुणा उत्कृष्टाः, ताश्च बहुप्रदेशत्वाद् अतिसूक्ष्मपरिणामत्वाच्च औदारिकस्य अनन्ता एव अग्रहणयोग्या भवन्ति, अल्पप्रदेशत्वाद् बादरपरिणामत्वाच्च । वैक्रियस्यापीति । अत्र च यथा यथा प्रदेशोपचयः तथा तथा विश्रसापरिणामवशाद् वर्गणानां सूक्ष्मतरत्वमवसेयम् ।
एतदेव उत्कृष्टोपरि रूपप्रक्षेपयोग्यायोग्यादिकं वैक्रियशरीरवर्गणानां जघन्योत्कृष्टविशेषलक्षणं चावसेयम्; तथा वैक्रिया-ऽऽहारकान्तरालवय॑योग्यवर्गणानां जघन्योत्कृष्टविशेषासङ्ख्येयगुणत्वमिति । पुनरपि अयोग्यवर्गणोपरि रूपप्रक्षेपाद् जघन्याहारकशरीरयोग्यवर्गणा भवन्ति, ताश्च प्रदेशवृद्ध्या वर्धमाना उत्कृष्टां यावदनन्ता भवन्ति । अथ जघन्योत्कृष्टयोः कियदन्तरं इति, उच्यते-जघन्याभ्य उत्कृष्टा विशेषाधिकाः । को विशेषः ? इति चेत्, जघन्यवर्गणाया एवानन्तभागः, तस्यापि अनन्तपरमाणुत्वाद् आहारकशरीरयोग्यवर्गणानां प्रदेशोत्तरवृद्धानां आनन्त्यमिति भावना ।
तस्यामेव उत्कृष्टवर्गणायां रूपे प्रक्षिप्ते जघन्या आहारकाग्रहणवर्गणाः, ततः प्रदेशवृद्ध्या वर्धमाना उत्कृष्टां यावदनन्ता एव, आहारकस्य सूक्ष्मत्वाद् बेहुप्रदेशत्वाच्च अयोग्या भवन्ति, बादरत्वाद् अल्पप्रदेशत्वाच्च तैजसस्येति । जघन्योत्कृष्टयोः कियदन्तरमिति ? उच्यते-जघन्याभ्य उत्कृष्टा अनन्तगुणाः, केन गुणकारेण ? इति चेत्, अभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभाग इति । तदुपरि रूपे प्रक्षिप्ते तैजसशरीरवर्गणा जघन्याः, एता अपि प्रदेशवृद्ध्या वर्धमाना उत्कृष्टां यावदनन्ता भवन्ति । अथ जघन्योत्कृष्टयोः कियदन्तरम् ?, जघन्याभ्य उत्कृष्टा विशेषाधिकाः, विशेषस्तु जघन्यवर्गणानन्तभागः, तस्यापि अनन्तप्रदेशत्वाद् जघन्योत्कृष्टान्तरालवर्गणानां आनन्त्यं भवति ।
टि० १. ०वर्गणानामजघन्यो० ख ॥ २. भवन्ति ग च ।। ३. बहुतरप्रदेशत्वा० घ ङ । ०त्वाच्चायोग्या एव भवन्ति च ॥ ४. कियदन्तरं भवति ? जघ० घ ङ ॥
१७३