SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ [श्रु०१ । अ०२। उ०१ । नि०१९४] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् ऽमरगति-चतुर्विधानुपूर्व्युदयाद् भवान्तरसङ्क्रमणं भवसंसारः । भावसंसारस्तु : संसृतिस्वभावः औदयिकादिभावपरिणतिरूप:; तत्र च प्रकृति- स्थिति - अनुभावप्रदेशबन्धानां प्रदेश–विपाकानुभवनम् । एवं द्रव्यादिकः पञ्चविधः संसारः । अथवा द्रव्यादिकश्चतुर्धा संसारः, तद्यथा - अश्वाद् हस्तिनम्, ग्रामाद् नगरम्, वसन्ताद् ग्रीष्मम्, औदयिकाद् औपशमिकं इति गाथार्थः ॥ १९२॥ तस्मिश्च संसारे कर्मवशगाः प्राणिनः संसरन्तीति अतः कर्मनिदर्शनार्थं आहणामं ठवणाकेम्मं च दव्वकम्मं पओगकम्मं च । सैमुयाण रियावहियं आहाकम्मं तवोकम्मं ॥१९४॥ किइकम्म भावकम्मं र्दैसविह कम्मं समासओ होइ । अवि उ कम्मेण एत्थ होई अहीयारो ॥ १९५॥ [ नि० ] [ नि० ] नामं ठवणा गाहा, किइकम्म गाहा । नामकर्म कर्मार्थशून्यं अभिधानमात्रम् । स्थापनाकर्म पुस्तक-पत्रादौ कर्मवर्गणानां सद्भावा -ऽसद्भावरूपा स्थापना । द्रव्यकर्म व्यतिरिक्तं द्विधा - द्रव्यकर्म नोद्रव्यकर्म च । तत्र द्रव्यकर्म कर्मवर्गणान्तःपातिनः पुद्गलाः बन्धयोग्या बध्यमाना बद्धाश्च अनुदीर्णा इति । नोद्रव्यकर्म कृषीवलादिकर्म । अथ कर्मवर्गणान्तःपातिनः पुद्गला द्रव्यकर्म इति अवाचि, काः पुनस्ता: वर्गणाः ? इति, सङ्कीर्त्यन्ते- इह वर्गणाः सामान्येन चतुर्विधाः, द्रव्य-क्षेत्र -काल- भावभेदात् । तत्र द्रव्यत एक - द्व्यादि-सङ्ख्येया - ऽसङ्ख्येया - ऽनन्तप्रदेशिकाः, क्षेत्रतोऽवगाढद्रव्यैकद्व्यादि-सङ्ख्येया-ऽसङ्ख्येयप्रदेशात्मिकाः, कालत एक - द्व्यादि - सङ्ख्येया-ऽसङ्ख्येयसमयस्थितिकाः, भावतो रूप-रस- गन्ध - स्पर्शस्वगतभेदात्मिकाः सामान्यतः । विशेषतस्तु उच्यन्ते तत्र परमाणूनां एका वर्गणा, एवं एकैकपरमाणूपचयात् सङ्ख्येयप्रदेशिकानां स्कन्धानां सङ्ख्येयाः, असङ्ख्येयप्रदेशिकानां असङ्ख्येयाः, एताश्च औदारिकादिपरिणामाऽग्रहणयोग्याः । अनन्तप्रदेशिकानामपि अनन्ता अग्रहणयोग्याः, ता उल्लङ्घ्य औदारिकग्रहणयोग्यास्तु अनन्तानन्तप्रदेशिका: खल्वनन्ता एव भवन्ति । तत्र अयोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते औदारिकशरीरग्रहणयोग्या जघन्या वर्गणा भवति, पुनरेकैकप्रदेशवृद्ध्या प्रवर्धमाना टि० १. भवान्तरसंसरणं ख ॥ २. ०कम्मं दव्वं कम्मं ज झ ॥ ३. समुयाणिरियावहियं ञ ॥ ४. दसविहमेयं समा० ञ ॥ ५. उच्यते ख ङ ॥ वि०टि० p “अयोग्य इति ग्रहणयोग्यवर्गणाभावात्" जै०वि०प० ॥ १७२
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy