SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ पञ्चविधसंसारः [श्रु०१। अ०२। उ०१। नि०१९३] दिकामगुणकारणकार्यभूतकषायकर्मोदयाद् आत्मपरिणामविशेषाः क्रोध-मान-माया-लोभाः । ते च एकैकशो अनन्तानुबन्धि-अप्रत्याख्यान-प्रत्याख्यानावरण-सञ्चलनभेदेन भिद्यमानाः षोडशविधा भवन्ति । तेषां च स्वरूपा-ऽनुबन्ध-फलानि गाथाभिरभिधीयन्ते, ताश्च इमा: "जल-रेणु-पुढवि-पव्वयराईसरिसो चउव्विहो कोहो । तिणिसलया-कट्ठ-ऽट्ठिय-सेलयथंभोवमो माणो ॥ मायावलेहि-गोमुत्ति- मिंढसिंग-घेणवंसमूलसमा । लोहो हलिद्द-खंजण-कद्दम-किमिरायसामाणो ॥ पक्ख-चउमास-वच्छर-जावज्जीवाणुगामिणो कमसो । देव-नर-तिरिय-नारयगतिसाहणहेयवो भणिया ॥" [विशे०आ०भा०२९९०-९२] एषां च नामाद्यष्टविधकषायनिक्षेपाणां कतमो नयः कमिच्छति ? इति, , एतदभिधीयते-तत्र नैगमस्य सामान्य-विशेषरूपत्वाद् नैकगमत्वात् च तदभिप्रायेण सर्वेऽपि साधवो नामादयः, सङ्ग्रह-व्यवहारौ तु कषायसम्बन्धाभावाद् आदेश-समुत्पत्ती नेच्छतः, ऋजुसूत्रस्तु वर्तमानार्थनिष्ठत्वाद् आदेश-समुत्पत्ति-स्थापना नेच्छति, शब्दस्तु नाम्नोऽपि कथञ्चिद् भावान्तर्भावाद् नाम-भावाविच्छतीति गाथातात्पर्यार्थः ॥१९१॥ तदेवं कषायाः कर्मकारणत्वेन उक्ताः, तदपि संसारस्य, स च कतिविधः ? इति दर्शयति[नि०] दव्वे खेत्ते काले भवसंसारे य भावसंसारे । पंचविहो संसारो जत्थेते संसरे जीवा ॥१९२॥ [नि०] देव्व खेत्ते काले भवसंसारे य भावसंसारे । कम्मेण य संसारो तेणऽहिगारो इहं सुत्ते ॥१९३॥ दव्वे खेत्ते गाहा । द्रव्यसंसारो व्यतिरिक्तो द्रव्यसंसृतिरूपः । क्षेत्रसंसारो येषु क्षेत्रेषु द्रव्याणि संसरन्ति । कालसंसार: यस्मिन् काल इति । नारक-तिर्यङ्-नरा टि० १. सेलत्थंभो० कप्रतेविना ॥ २. ० में ढसिंग० ख च । ०में ढिसिंग० ग ॥ ३. ०घणवंसि० घ ङ ॥ ४. हलिद्द-कद्दम-खंजण-किमि० खपुस्तकमृते ॥ ५. ०गामिणो भणिया ख ॥ ६. किमिच्छतीति ग ॥ ७. जत्थ य ते सं० ज ॥ ८. संसरंति जिया ख ज झ ठ ॥ ९. गाथेयं कछप्रत्यो!पलभ्यते । चर्णि-वृत्तिकद्भिरपीयं गाथा अविवृता, अतः प्रक्षिप्ता आभाति ॥ १७१
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy