________________
[श्रु०१। अ०२। उ०१। नि०१९१] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
ते सयणेत्यादि । स्वजनः पूर्वा-ऽपरसंस्तुतो माता-पितृ-श्वशुरादिकः, प्रेष्यः भृत्यादिः, अर्थः धन-धान्य-कुप्य-वास्तु-रत्नभेदरूपः, ते स्वजनादयः कृतद्वन्द्वा आदिः येषां मित्रादीनां तेषु स्थिताः कषाया विषयरूपतया, अध्यात्मनि च विषयिरूपतया प्रसन्न रैकेन्द्रियादीनामिति गाथार्थः ॥१९०॥
तदेवं कषायस्थानप्रदर्शनेन सूत्रपदोपात्तं स्थानं परिसमाप्य तेषामेव कषायाणां सूत्रमूलपदोपात्तानां जेतव्यत्वाधिकृतानां निक्षेपमाह[नि०] नामं ठवणा दविए उप्पत्ती पच्चए य आएसे ।
रस भावकसाए या को णय? कोहाइया चउरो ॥१९१॥ नामं ठवणा गाहा । यथा भूतार्थनिरपेक्षमभिधानमात्रं नाम । सद्भावा-ऽसद्भावरूपा प्रतिकृतिः स्थापना कृतभीमभृकुट्युत्कटललाटघटितत्रिशूल-रक्तास्यनयन-सन्दष्टाधरस्यन्दमानस्वेदसलिलचित्र-पुस्ताद्यक्ष-वराटकादिगता इति ।
___द्रव्यकषाया ज्ञशरीर-भव्यशरीराभ्यां व्यतिरिक्ताः (द्वेधा)– कर्मद्रव्यकषायाः नोकर्मद्रव्यकषायाश्च इति । तेत्र आदित्सिता-ऽऽत्ता-ऽनुदीर्णोदीर्णाः पुद्गला द्रव्यप्राधान्यात् कर्मद्रव्यकषायाः । नोकर्मद्रव्यकषायास्तु बिभीतकादयः ।।
उत्पत्तिकषायाः शरीरोपधि-क्षेत्र- वास्तु-स्थाण्वादयो यदाश्रित्य तेषामुत्पत्तिः, तथा चोक्तम्
"किं एत्तो कट्ठयरं जं मूढो थाणुयम्मि आवडिओ ।
थाणुस्स तस्स रूसई न अप्पणो दुप्पओगस्स ॥" [ ] प्रत्ययकषायाः- कषायाणां ये प्रत्ययाः यानि बन्धकारणानि ते चेह मनोज्ञेतरभेदाः शब्दादयः, अत एव उत्पत्ति-प्रत्यययोः कार्य-कारणगतो भेदः । आदेशकषायाः कृत्रिमकृतभृकुटीभङ्गादयः । रसतो रसकषायः कटु-तिक्त-कषायपञ्चकान्तर्गतः ।
भावकषायाः शरीरोपधि-क्षेत्र-वास्तु-स्वजन-प्रेष्या-ऽर्थादिनिमित्ताविर्भूताः शब्दा
टि० १. या तेण य क ठ || २. तत्र आदित्सितानुदीर्णो दीर्णपुद्गला ख ॥ ३. द्रव्यप्राध[ ?थ म्यात् क ॥ ४. जह ख ।। ५. खाणुयम्मि ग घ ङ ।। ६. खाणुस्स घ ॥ ७. रसकषायाः ग ॥ ८. ०कान्तर्गताः ग ॥
वि०टि०० कषायनिष्ठविषयितानिरूपितविषयतासम्बन्धेन इत्यर्थः ।। A कषायनिष्ठविषयितानिरूपितविषयतासम्बन्धेन इत्यभिप्रायः ॥ क "सलिलचित्र इति सद्भावस्थापना" जै०वि०प० ।। # "पुस्तादि इति असद्भावस्थापना" जै०वि०प० ॥ "वास्तु इति गृहम्' जै०वि०प० ॥
१७०