________________
कषायाः संसारमूलकर्मण: कारणम् [श्रु०१। अ०२। उ०१। नि०१९०] तदेवं पारम्पर्येण संसार-कषाय-कामानां कारणत्वाद् मोहनीयं प्रधानभावमनुभवति, तत्क्षये च अवश्यम्भावी कर्मक्षयः । तथा च अभाणि
"जह मत्थयसूईए, हयाए हम्मई तलो ।
____ तह कम्माणि हम्मंति मोहणिज्जे खयं गए ॥" [ ] तच्च द्विधा, दर्शन-चारित्रमोहनीयभेदात् । एतदेव आह[नि०] दुविहो य होइ मोहो दंसणमोहो चरित्तमोहो य ।
कामा चरित्तमोहो तेणऽहिगारो इहं सुत्ते ॥१८९॥ दुविहो य होइ मोहो गाहा । मोहनीयं कर्म द्विधा भवति–दर्शनमोहनीयं चारित्रमोहनीयं च, बन्धहेतोद्वैविध्यात् । तथा हि- अर्हत्-सिद्ध-चैत्य-तपः-श्रुत-गुरु-साधुसङ्घप्रत्यनीकतया दर्शनमोहनीयं कर्म बध्नाति, येन च असौ अनन्तसंसारसमुद्रान्तःपात्येव अवतिष्ठते । तथा तीव्रकषाय-बहुराग-द्वेष-मोहाभिभूतः सन् देश-सर्वविरत्युपघाति चारित्रमोहनीयं कर्म बध्नाति । तेत्र अनन्तानुबन्धि-मिथ्यात्व-सम्यगमिथ्यात्वसम्यक्त्वभेदात् दर्शनमोहनीयं सप्तधा, तथा द्वादशकषाय-नवनोकषायभेदात् चारित्रमोहनीयमेकविंशतिधा । तत्र कामाः शब्दादयः पञ्च चारित्रमोहः, तेन चात्र सूत्रेऽधिकारः, यतः कषायाणां स्थानमत्र प्रकृतम्, तच्च शब्दादिकपञ्चगुणात्मकमिति गाथार्थः ॥१८९।।
तत्र चारित्रमोहनीयोत्तरप्रकृतिस्त्री-पुं-नपुंसकवेद-हास्य-रैति-लोभाश्रितकामाश्रयिणः कषायाः संसारमूलस्य च कर्मणः प्रधानं कारणमिति प्रचिकटयिषुराह[नि०] संसारस्स उ मूलं कम्मं तस्स वि य होति य कसाया ।
संसारस्य उ मूलमित्यादि । संसारस्य= नारक-तिर्यङ्-नरा-ऽमरगति-संसृतिरूपस्य कारणं अष्टप्रकारं कर्म, तस्यापि कर्मणः कषायाः क्रोधादयो निमित्तं भवन्ति, पूर्वार्द्धम् ।
तेषां च प्रतिपादितशब्दादिस्थानानां प्रचुरस्थानप्रतिपादनाय पुनरपि स्थानविशेष गाथाशकलेन आह
ते सयण-पेस-अत्थाइएसु अज्झत्थओ य ठिया ॥१९०॥
टि० १. तत्र मिथ्यात्व-सम्यग्मिथ्यात्व-सम्यक्त्वभेदात् त्रिधा दर्शनमोहनीयम्, तथा षोडशकषाय-नवनोकषायभेदात् पञ्चविंशतिः[ ?तिधा ] चारित्रमोहनीयम् । तत्र कामाः च ॥ २. ०भेदात् सप्तधा दर्शनमोहनीयम्, तथा द्वादशकषाय-नवनोकषायभेदाद् एकविंशतिः [ ?तिधा] चारित्रमोहनीयम् । तत्र कामाः ख ॥ ३. ०रति-अरति-लोभा० ग ॥ ४. ०श्रयिणः षे ?
षोडश) कषायाः संसारमूलस्य च कर्मणो नव नोकषाय ?याः ] प्रधानं ग ॥
१६९