________________
[श्रु०१ । अ०२ । उ०१ । नि०१८७ ] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
द्वेषं वा कर्कशशब्दादौ व्रजतीति । ततश्च मनोज्ञेतरशब्दादिविषयाः कषायाणां मूलस्थानम्, ते च संसारस्य इति गाथातात्पर्यार्थः ॥ १८६॥
यदि नाम शब्दादिविषयाः कषायाः, कथं तेभ्यः संसार ? इति उच्यते - यतः कर्मस्थितेः कषाया मूलम्, साऽपि संसारस्य, संसारिणश्च अवश्यम्भाविनः कषाया इति । एतदेव आह
[ नि० ]
जह सव्वपायवाणं भूमीऍ पतिट्ठिताणि मूलाणि । इय कम्मपायवाणं संसारपइट्ठिया मूला ॥ १८७॥
जह सव्वपायवाणं गाहा । यथा सर्वपादपानां भूमौ प्रतिष्ठितानि मूलानि एवं कर्मपादपानां संसारे कषायरूपाणि मूलानि प्रतिष्ठितानीति गाथार्थः ॥ १८७॥
ननु च कथमेतत् श्रद्धेयं 'कर्मणः कषाया मूलम् ?' इति, उच्यते - यतो मिथ्यात्वाऽविरति -प्रमाद- कषाय- योगा बन्धहेतवः, तथा च आगमः
4.
'जीवे णं भंते ! कइहिं ठाणेहिं णाणावरणिज्जं कम्मं बंधइ ? गोयमा ! दोहिं ठाणेहिं, तं जहा- रागेण य दोसेण य । रागे दुविहे ( पण्णत्ते, तं जहा )- माया लोभे य, दोसे दुविहे ( पण्णत्ते, तं जहा ) - कोहे माणे य । एएहिं चउहिं ठाणेहिं वीरिओवग्गहिएहिं णाणावरणिज्जं कम्मं बंधइ ।" [ प्रज्ञा०सू०२३ / १६९० ]
एवं अष्टानामपि कर्मणां योज्यमिति । ते च कषाया मोहनीयान्त:पातिना अष्टप्रकारस्य च कर्मणः कारणम् मोहनीयं कामगुणानां च दर्शयति—
[ नि० ]
अट्ठविहकम्मरुक्खा सव्वे ते मोहणिज्जमूलागा । कामगुणर्मूलिया वा तम्मूलागं च संसारो ॥१८८॥
अट्ठविहकम्मरुक्खा गाहा । यदवाचि प्राक् – 'इय कम्मपादवाणं' तत्र कतिप्रकारास्ते कर्मपादपाः किंकारणाश्च ? इति उच्यते - अष्टविधकर्मवृक्षाः, ते सर्वेऽपि मोहनीयमूलाः । न केवलं कषायाः, कामगुणा अपि मोहनीयमूला:, यस्माद् वेदोदयात् कामाः, वेदश्च मोहनीयान्तः पातीति, अतः तत् मोहनीयं मूलम् आद्यं कारणं यस्य संसारस्य स तथा, इति गाथार्थः ॥ १८८॥
१६८
टि० १. वीरिओवगूहिएहिं ग घ ङ विना ॥ २ ० मूलगं वा ख। ० मूलियं वा छ ज । ० भूलियागं ( वा ? ) कझ ञ ठ ॥ ३ यदवादि च ॥ ४. किंकारणास्ते इति ग ॥ ५. कामगुणाश्च मोह० पुस्तकमृते ॥