SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ___ शब्दादिजन्याः कषायाः [श्रु०१। अ०२। उ०१। नि०१८६] तत्र द्रव्यच्छिन्नसन्धानं कञ्चुकादेः, अच्छिन्नसन्धानं तु पक्ष्मोत्पद्यमानतन्त्वादेरिति । भावसन्धानमपि प्रशस्ता-ऽप्रशस्तभेदाद् द्वेधा । तत्र प्रशस्ताच्छिन्नभावसन्धानं उपशमक्षपकश्रेण्यावारोहतो जन्तोरपूर्वसंयमस्थानानि अच्छिन्नान्येव भवन्ति, श्रेणिव्यतिरेकेण वा प्रवर्धमानकण्डकस्येति । छिन्नप्रशस्तभावसन्धानं पुनरौपशमिकादिभावाद् औदयिकादिभावान्तरगतस्य पुनरपि शुद्धपरिणामवतः तेत्रैव गमनम् । अप्रशस्ताच्छिन्नभावसन्धानं उपशमश्रेण्याः प्रतिपततो अविशुद्ध्यमानपरिणामस्य अनन्तानुबन्धि-मिथ्यात्वोदयं यावत्, उपशमश्रेणिमन्तरेणापि कषायवशाद् बन्धाध्यवसायस्थानानि उत्तरोत्तराणि अवगाहमानस्य वा इति । अप्रशस्तच्छिन्नभावसन्धानं पुनरौदयिकभावाद् औपशमिकादिभावान्तरसङ्क्रान्तौ सत्यां पुनस्तत्रैव गमनमिति । इह द्वारद्वयं यौगपद्येन व्याख्यातम् । तत्र सन्धानस्थानं द्रव्यविषयम्, इतरत् तु भावविषयमिति । उक्तं स्थानम् ॥१८५।। अथवा भावस्थानं कषायाणां यत् स्थानं तदिह परिगृह्यते, तेषामेव जेतव्यत्वेन अधिकृतत्वात् । तेषां किं स्थानम् ? यदाश्रित्य ते भवन्ति; शब्दादिविषयान् आश्रित्य च ते भवन्तीति दर्शयति[नि०] पंचसु कामगुणेसु य सद्द-प्फरिस-रस-रूव-गंधेसुं । जस्स कसाया वेद॒ति मूलट्ठाणं तु संसारे ॥१८६॥ पंचसु गाहा । तत्र इच्छा-ऽनङ्गरूपः कामः, तस्य गुणा यान् आश्रित्य असौ चेतसो विकारमादर्शयति, ते च शब्द-स्पर्श-रस-रूप-गन्धाः, तेषु पञ्चस्वपि व्यस्तेषु समस्तेषु वा विषयभूतेषु यस्य जन्तोः विषयसुखपिपासोन्मुखस्य अपरमार्थदर्शिनः संसाराभिष्वङ्गिणो राग-द्वेषतिमिरोपप्लुतदृष्टेः मनोज्ञेतरविषयोपलब्धौ सत्यां कषायाः वर्तन्ते प्रादुर्भवन्ति, तन्मूलश्च संसारपादपः प्रादुर्भवतीति, अतः शब्दादिविषयोद्भूतकषायाः संसारे संसारविषयं मूलस्थानमेव इति । एतदुक्तं भवति-रागाद्युपहतचेताः परमार्थमजानानो अतत्स्वभावेऽपि तत्स्वभावारोपणेन अन्धादपि अन्धतमः कामी मोदते । यत आह "दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत् परिहरन् यन्नास्ति तत् पश्यति । कुन्देन्दीवर-पूर्णचन्द्र-कलश-श्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥" [ ] टि० १. तत्रैवागमनम् घ ङ । २. अवगाहत इति क ॥ ३. पुनरत्रैव क || ४. यदाश्रित्य च ते भवन्तीति । तद् दर्शयति ग च ।। ५. ०गुणेसू सद्द० ख छ ज झ । ०गुणेसुं सद्द० च ॥ ६. वटुंति ख ॥ १६७
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy