________________
[श्रु०१। अ०२। उ०१। नि०१८५] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
'संयमस्थानं' संयमः सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धि-सूक्ष्मसम्पराययथाख्यातरूपः, तस्य पञ्चविधस्यापि असङ्ख्येयानि संयमस्थानानि । कियदसङ्ख्येयं इति चेत्, अतीन्द्रियत्वादर्थस्य न साक्षात् निर्देष्टुं शक्यते, आगमानुसारोपमया तूच्यते- इह एकसमयेन सूक्ष्माग्निजीवा असङ्ख्येयलोकाकाशप्रदेशप्रमाणाः उत्पद्यन्ते, तेभ्योऽग्निकायत्वेन परिणता असङ्ख्येयगुणाः, ततोऽपि तत्कायस्थितिः असङ्ख्येयगुणा, ततोऽपि अनुभागबन्धाध्यवसायस्थानानि असङ्ख्येयगुणानि, संयमस्थानान्यपि एतावन्त्येव इति सामान्यतः, विशेषतः तूच्यते- सामायिक-च्छेदोपस्थापनीय-परिहार-विशुद्धीनां प्रत्येकं असङ्ख्येयलोकाकाशप्रदेशतुल्यानि संयमस्थानानि, सूक्ष्मसम्परायस्य तु आन्तमॊहूर्तिकत्वाद् अन्तर्मुहूर्तसमयतुल्यानि असङ्ख्येयानि संयमस्थानानि, यथाख्यातस्य तु एकमेव अजघन्योत्कृष्टं संयमस्थानम् । अथवा संयमश्रेण्यन्तर्गतानि संयमस्थानानि ग्राह्याणि, सा च अनेन क्रमेण भवति, तद्यथा- अनन्तचारित्रपर्यायनिष्पादितमेकं संयमस्थानम्, असङ्ख्येयसंयमस्थाननिर्वतितं कण्डकम्, तैश्च असङ्ख्येयैः जनितं षट्स्थानकम्, तदसङ्ख्येयात्मिका श्रेणीति ।
प्रग्रहस्थानं तु प्रकर्षण गृह्यते वचोऽस्य इति प्रग्रहः, ग्राह्यवाक्यो नायक इत्यर्थः । स च लौकिको लोकोत्तरश्च, तस्य स्थानं प्रग्रहस्थानम् । लौकिकं तावत् पञ्चविधम्, तद्यथाराजा युवराजो महत्तरोऽमात्यः कुमारश्च इति । लोकोत्तरमपि पञ्चविधम्, तद्यथाआचार्योपाध्याय-प्रेवति-स्थविर-गणावच्छेदकभेदादिति ।
योधस्थानं पञ्चधा, तद्यथा-आलीढ-प्रत्यालीढ-वैशाख-मण्डल-समपादभेदात् ।
अचलस्थानं तु चतुर्धा सादि-सपर्यवसानादिभेदात्, तद्यथा- सादिसपर्यवसानं परमाण्वादेः द्रव्यस्य एकप्रदेशादौ अवस्थानं जघन्यत एकं समयं उत्कृष्टतश्च असङ्ख्येयकालमिति, साद्यपर्यवसानं सिद्धानां भविष्यदद्धारूपं वा, अनादिसपर्यवसानं अतीताद्धारूपस्य, शैलेश्यवस्थान्त्यसमये कार्मण-तैजस-शरीर-भव्यत्वानां चेति, अनाद्यपर्यवसानं धर्मा-ऽधर्मा-ऽऽकाशानामिति ।
गणनास्थानम् एक-द्व्यादिकं शीर्षप्रहेलिकापर्यन्तम् । सन्धानस्थानं द्विधा-द्रव्यतो भावतश्च । पुनरपि प्रत्येकं द्विधा, छिन्ना-ऽच्छिन्नभेदात् ।
टि० १. रूपः पञ्चविधः, तस्य पञ्च० ख ॥ २. किं तदसङ्ख्यम् ? ग च । कियदसङ्ख्यम् ? ङ विना ॥ ३. प्रवृत्ति० ग च ॥ ४. तद्यथा-लीढ-प्रत्या० क ग च ॥ ५. ०रूपं शैले० ख ॥ ६. ०भव्यसत्त्वानां ग च ॥ ७. वेति ख-गप्रती ऋते ॥
१६६