________________
स्थाननिक्षेपाः [श्रु०१। अ०२। उ०१। नि०१८५] संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात् क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः ।
तस्मात् कल्याणानां सर्वेषां भाजनं विनयः ॥" [ प्रशम० ७२-७४] इत्यादि । संसारस्य तु आदिमूलं विषय-कषाया इति ॥१८४।।
मूलमुक्तम् । इदानीं स्थानस्य पञ्चदशधा निक्षेपमाह[नि०] नामं ठवणा दविए खेत्तऽद्धा उड्व उवरई वसही ।
संजम पग्गह जोहे अचल गणण संधणा भावे ॥१८५॥ नामं ठवणा गाहा । तत्र द्रव्यस्थानं ज्ञशरीर-भव्यशरीव्यतिरिक्तं द्रव्याणां सचित्ताऽचित्त-मिश्राणां स्थानम् आश्रयः ।
क्षेत्रस्थानं भरतादि ऊर्ध्वा-ऽध:-तिर्यग्लोकादि वेति, यत्र वा क्षेत्रे स्थानं व्याख्यायत इति ।
अद्धा-कालः, तत्स्थानं द्विधा कायस्थिति-भवस्थितिभेदात् । तत्र कायस्थितिः पृथिव्यप्-तेजो-वायूनामसङ्ख्येया उत्सर्पिण्यवसर्पिण्यः, वनस्पतेस्तु ता एव अनन्ताः, विकलेन्द्रियाणां सङ्ख्येया वर्षसहस्राः, पञ्चेन्द्रिय-तिर्यङ्-मनुजानां सप्ता अष्टौ वा भवाः । भवस्थितिस्तु वायूदक-वनस्पति-पृथिवीनां त्रि-सप्त-दश-द्वाविंशतिवर्षसहस्रात्मिका, तेजसः त्रीणि अहोरात्राणि, द्वीन्द्रियाणां शङ्खादीनां द्वादश वर्षाणि, त्रीन्द्रियाणां पिपीलिकादीनां एकोनपञ्चाशदहोरात्राणि, चतुरिन्द्रियाणां भ्रमरादीनां षण्मासाः, पञ्चेन्द्रियतिर्यङ् -मनुष्याणां त्रीणि पल्योपमानि, देवानां नारकाणां च कायस्थितेरभावाद् भवस्थितिः त्रयस्त्रिंशत्सागरोपमाणीति । इयमुत्कृष्टा द्विरूपाऽपि । जघन्या तु सर्वेषां अन्तर्मुहूर्तात्मिका, नवरं देव-नारकयोः दशवर्षसहस्राणीति । अथवा अद्धास्थानं समयाऽऽवलिका-मुहूर्ता-ऽहोरात्र-पक्ष-मास-ऋतु-अयन-संवत्सर-युग-पल्योपम-सागरोपमउत्सपिणी-अवसर्पिणी-पुद्गलपरावर्ता-ऽतीता-ऽनागत-सर्वाद्धारूपमिति ।
उर्ध्वस्थानं तु कायोत्सर्गादिकम्, अस्य उपलक्षणत्वाद् निषण्णादि अपि गृह्यते । उपरतिः विरतिः, तत्स्थानं देशे सर्वत्र च श्रावक-साधुविषयम् । . वसतिस्थानं यो यत्र ग्राम-गृहादौ वसति ।
टि० १. चेति कप्रतिमते ।। २. ०याणामसङ्ख्येया ख-ङ प्रती विना ॥