SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०१। नि०१८३] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् [नि०] मूले छक्कं देव्वे ओदइ-उवएस-आइमूलं च । खेत्ते काले मूलं भावे मूलं भवे तिविहं ॥१८३॥ मूले छक्कं गाहा । मूलस्य षोढा निक्षेप: नाम-स्थापना-द्रव्य-क्षेत्र-काल-भावभेदात् । नाम-स्थापने क्षुण्णे । द्रव्यमूलं ज्ञशरीर-भव्यशंरीव्यतिरिक्तं त्रिधा- औदयिकमूलं उपदेशमूलं आदिमूलं चेति । तेत्र औदयिकद्रव्यमूलं वृक्षादीनां मूलत्वेन परिणतानि यानि द्रव्याणि । उपदेशमूलं यत् चिकित्सको रोगप्रतिघातसमर्थं मूलमुपदिशति आतुराय इति, तच्च पिप्पलीमूलादिकम् । आदिमूलं नाम यद् वृक्षादिमूलोत्पत्तावाद्यं कारणम्, तेद् यत् स्थावरनामगोत्रप्रकृतिप्रत्ययाद् मूलनिर्वर्तनोत्तरप्रकृतिप्रत्ययाच्च मूलमुत्पद्यते । एतदुक्तं भवतितेषां औदारिकशरीरत्वेन मूलनिर्वर्तकानां पुद्गलानामुदयिष्यतां कार्मणं शरीरमाद्यं कारणम् । क्षेत्रमूलं यस्मिन् क्षेत्रे मूलमुत्पद्यते व्याख्यायते वा । एवं कालमूलमपि, यावन्तं वा कालं मूलमास्ते । भावमूलं तु त्रिधा इति गाथार्थः ॥१८३॥ तदाह[नि०] उदइय उवदिवाई आईयं मूलजीव ओदइयं । आयरिओ उवइट्ठा विणय-कसायादओ आदी ॥१८४॥ दारं ॥ __ ओदइय गाहा । भावमूलं त्रिविधं- औदयिकभावमूलं उपदेष्ट्रमूलं आदिमूलं चेति । तत्र औदयिकभावमूलं वनस्पतिकायमूलत्वमनुभवन् नाम-गोत्रकर्मोदयाद् मूलजीवः एव । उपदेष्ट्रभावमूलं तु आचार्य उपदेष्टा यैः कर्मभिः प्राणिनो मूलत्वेन उत्पद्यन्ते तेषामिति, मोक्ष-संसारयोर्वा यदादिभावमूलं तस्य चोपदेष्टा इति । एतदेव दर्शयति–'विणयकसायातिओ आई' तत्र मोक्षस्य आदिमूलं ज्ञान-दर्शन-चारित्र-तप-औपचारिकरूपः पञ्चधा विनयः, तन्मूलत्वाद् मोक्षावाप्तेः । तथा चाह "विणया नाणं नाणाउ दंसणं दसणाहि चरणं च । चरणाहितो मोक्खो मोक्खे सोक्खं अणाबाहं ॥[ "विनयफलं शुश्रूषो गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः ॥ टि० १. दव्वे उदए उव० ख ठ । दव्वे उदइय उव० ज । २. तच्चौदयिक० क ॥ ३. यद् यत् ख ।। ४. ०त्तरोत्तरप्रकृति० कप्रतेविना ॥ ५. तथा हि ग च ॥ ६. ओदइओ उवइट्ठा आतियं मूल० क । ओदइओ उवएसे आइ तियं मूल० छ । ओदइओ उवदिट्ठो आइ तियं मूलजीवि ओदइगं च ॥ ७. ०ट्ठा आइ तियं मूल० झ ।। ८. आईयं जीव मूलओ उदयं ख ॥ ९. ०कसायादओ झ ॥ १०. तेषामपि ग च ।। ११. ति ख ग च । तु घ ङ ।। १२. ०षा शुश्रूषायाः फलं ग च ॥ १६४
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy