________________
__ भावगुणस्वरूपम् [श्रु०१। अ०२। उ०१। नि०१८२] मनुजानां च अशेषकर्मक्षयः, देवानां च सर्वशुभानुभावो भवगुणादेव इति ।
___ शीलगुणो नाम परैः आक्रुश्यमानोऽपि शीलगुणादेव न क्रोधवशगो भवति । अथवा शब्दादिके शोभने अशोभने वा स्वभावादेव विदितवेद्यवत् माध्यस्थ्यं अवलम्बते ।
___ भावगुणो नाम भावा: औदयिकादयः, तेषां गुणः=भावगुणः । स च जीवाऽजीवविषयः । तत्र जीवविषय औदयिकादिः षोढा । तत्र औदयिकः प्रशस्तोऽप्रशस्तश्च । तीर्थकरा-ऽऽहारकशरीरादिः प्रशस्तः; अप्रशस्तस्तु शब्दादिविषयोपभोग-हास्य-रत्यरतीत्यादिः । औपशमिक उपशमश्रेण्यन्तर्गतायुष्कक्षयानुत्तरविमानप्राप्तिलक्षणः तथा सत्कर्मानुदयलक्षणश्च इति । क्षायिकभावगुणः चतुर्धा, तद्यथा-क्षीणसप्तकस्य पुनः मिथ्यात्वाऽगमनम् १, क्षीणमोहनीयस्य अवश्यम्भाविशेषघातिकर्मक्षयः २, क्षीणघातिकर्मणः अनावरणज्ञान-दर्शनाविर्भावः ३, अपगताशेषकर्मणो अपुनर्भवः तथा आत्यन्तिकैकान्तिकानाबाधपरमानन्दलक्षणसुखावाप्तिश्च इति ४। क्षायोपशमिकः क्षायोपशमिकदर्शनाद्यवाप्तिरिति । पारिणामिको भव्यत्वादिरिति । सान्निपातिकस्तु औदयिकादिपञ्चभावसमकालनिष्पादितः, तद्यथा-मनुष्यगत्युदयाद् औदयिकः, सम्पूर्णपञ्चेन्द्रियत्वावाप्तेः क्षायोपशमिकः, दर्शनसप्तकक्षयात् क्षायिकः, चारित्रमोहनीयोपशमाद् औपशमिकः, भव्यत्वात् पारिणामिक इति ।
उक्तो जीव(भाव)गुणः । साम्प्रतं अजीवभावगुणः, स च औदयिकपारिणामिकयोः एव सम्भवति, नान्येषाम् । तत्र औदयिकः तावद् उदये भवः औदयिकः, स च अजीवाश्रयोऽनया विवक्षया, यदुत काश्चित् प्रकृतयः पुद्गलविपाकिन्य एव भवन्ति x । काः पुनः ताः ? उच्यन्ते-औदारिकादीनि शरीराणि पञ्च, षट् संस्थानानि, त्रीणि अङ्गोपाङ्गानि, षट् संहननानि, वर्णपञ्चकम्, गन्धद्वयम्, पञ्च रसाः, अष्टौ स्पर्शाः, अगुरुलघुनाम उपघातनाम पराघातनाम उद्योतनाम आतपनाम निर्माणनाम प्रत्येकनाम साधारणनाम स्थिरनाम अस्थिरनाम शुभनाम अशुभनाम, एताः सर्वा अपि पुद्गलविपाकिन्यः सत्यपि जीवसम्बन्धित्वे पुद्गलविपाकित्वाद् आसामिति । पारिणामिको अजीवगुणस्तु द्वेधा- अनादिपारिणामिकः सादिपारिणामिकश्च इति । तत्र अनादिपारिणामिको धर्मा-ऽधर्मा-ऽऽकाशानां गति-स्थित्यवगाहलक्षणः, सादिपारिणामिकः तु अभ्रेन्द्रधनुरादीनां परमाणूनां च वर्णादिगुणान्तरापत्तिरिति गाथातात्पर्यार्थः ॥१८२।।
उक्तो गुणः । मूलनिक्षेपार्थमाह
टि० १. परैराक्रम्यमानोऽपि क ॥
१६३