________________
[श्रु०१ । अ०२ । उ०१ । नि०१८२]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
निर्भजना, निश्चितो भाग इत्यर्थः । तथा हि- स्कन्धद्रव्यं देश-प्रदेशेन भिद्यमानं परमाण्वन्तं भेदं ददाति । (परमाणुरपि एकगुणकृष्ण-द्विगुणकृष्णादिना अनन्तशोऽपि भिद्यमानो भेददाति ।
गणनागुणो नाम द्विकादिक:, तेन च सुमहतोऽपि राशेः गणनागुणेन इयत्ता अवधार्यते इति ।
करणगुणो नाम कलाकौशलम् । तथा हि- उदकादौ करणपाटवार्थं गात्रोत्क्षेपादिकां क्रियां कुर्वन्तीति ।
अभ्यासगुणो नाम भोजनादिविषयः । तद्यथा— तदहर्जातबालकोऽपि भैवान्तराभ्यासात् स्तनादिकं मुख एव प्रक्षिपति उपरतरुदितश्च भवति । यदि वा अभ्यासवशात् सन्तमसेऽपि कवलादेः मुखविवरप्रक्षेपाद् व्याकुलितचेतसोऽपि च तुदद्गात्रकण्डूयनमिति । गुणागुणो न गुण एव कस्यचिद् अगुणत्वेन विपरिणमते, यथा- आर्जवोपेतस्य ऋजुत्वाख्यो गुणो मायाविनः प्रति अगुणो भवति । उक्तं च" शाठ्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवम्, शूरे निर्घृणताऽऽर्जवे विमतिता दैन्यं प्रियाभाषिणि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत् को नाम गुणो भवेत् स विदुषां यो दुर्जनैर्नाङ्कितः ॥ " [ नीतिशतक ५४ ] अगुणगुणो नाम अगुण एव कस्यचिद् गुणत्वेन विपरिणमते । स च वक्रविषयः, यथा—गौर्गलिः असञ्जातैकिणस्कन्धो गोगणस्य मध्ये सुखेनैव आस्ते । तथा च“गुणानामेव दौरात्म्याद् धुरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः सुखं जीवति गौर्गलिः ॥ [ ]
भवगुणो नाम भवन्ति = उत्पद्यन्ते तेषु तेषु स्थानेषु इति नारकादिः भवः, तत्र तस्य वा गुणः=भवगुणः । स च जीवविषयः, तद्यथा - नारकाः तीव्रतरवेदनासहिष्णवः तिलश: छिन्नसन्धानिनो अवधिमन्तश्च भवगुणादेव भवन्ति, तिर्यञ्चश्च सदसद्विवेकविकला अपि सन्तो गगनगमनलब्धिमन्तः, गवादीनां च तृणादिकमपि अशनं शुभानुभावेन आपद्यते,
टि० १. द्विकादिरूप:, तेन ख ग च ॥ २. भवाभ्यासात् ख ॥। ३. वाऽभ्यासात् ख ॥ ४. नाम तत्र गुण क ग च ॥ ५. निर्घृणता ऋजौ विम० ग च ॥ ६. ०तकिणो गोगणस्य ख ॥ ७. दौर्जन्याद् ख ग च ॥ ८. शुक्लभावे० घ ॥
१६२