SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ क्षेत्रादिगुणनिक्षेपनिरूपणम् लोकप्रमाणत्वाद् आत्मप्रदेशानां लोकमापूरयर्ति, तदुक्तम्— ‘“दंड कवाडे मंथंतरए” [आव०नि०९५५, विशेषाव०३०३१] त्ति, गाथार्थः ॥१८१॥ गतो द्रव्यगुणः । क्षेत्रादिकमाह— [ नि० ] [श्रु०१ । अ०२ उ०१ । नि०१८२] देवकुरु सुसमसुसमा सिद्धी णिब्भय दुगादिया चेव । कल भोयणुज्ज[?ज्जु] वंके जीवमजीवे य भावम्मि ॥१८२॥ देवरु गाहा । क्षेत्रगुणे देवकुर्वादि, कालगुणे सुषमसुषमादिः, फलगुणे सिद्धि:, पर्यवगुणे "निर्भजना, गणनागुणे द्विकादि, करणगुणे कलाकौशल्यम्, अभ्यासगुणे भोजनादि, गुणागुणे ऋजुता, अगुणगुणे वक्रता, भवगुण- शीलगुणयोः भावगुणार्थमुपात्तेन जीवग्रहणेन गतार्थत्वाद् गाथायां पृथगनुपादानम्, भवगुणो जीवस्य नारकादिर्भवः, शीलगुणो जीव एव क्षान्त्याद्युपेतः, भावगुणो जीवा - ऽजीवयोरिति एवं संयोज्य एकैकं व्याख्याचतेतत्र देवकुरूत्तरकुरु- हरिवर्ष - र - हैमवत-हैरण्यवत - षट्पञ्चाशदन्तरद्वीपकाऽकर्मभूमीनां अयं गुणः यदुत तत्रत्यमनुजा देवकुमारोपमाः सदा अवस्थितयौवना निरुपक्रमायुषो मनोज्ञशब्दादिविषयोपभोगिनः स्वभावभार्दवा - ऽऽर्जव - प्रकृतिभद्रकगुणाऽऽसन्नदेवलोकगतयश्च भवन्ति । - रम्यक कालगुणोऽपि भरतैरावतयोः तिसृष्वपि एकान्तसुषमादिषु समासु स एव सदा अवस्थितयौवनादिरिति । फलमेव गुणः = फलगुणः । फलं च क्रियाया भवति, तस्याश्च क्रियायाः सम्यग्दर्शन- ज्ञान-चारित्ररहिताया ऐहिका - ऽऽमुष्मिकार्थं प्रवृत्ताया अनात्यन्तिकः अनैकान्तिको भवन् फलगुणोऽपि अगुण एव भवति । सम्यग्दर्शन - ज्ञान-चारित्रक्रियायास्तु एकान्तिका -ऽऽत्यन्तिका -ऽनाबाधसुखाख्यसिद्धिफलगुणो अवाप्यते । एतदुक्तं भवति — सम्यग्दर्शनादिकैव क्रिया सिद्धिफलगुणेन फलवती, अपरा तु सांसारिक सुखफलाभास एव, फलाध्यारोपाद् निष्फला इत्यर्थः । पर्यायगुणो नाम द्रव्यस्य अवस्थाविशेषः पर्यायः, स एव गुण:- पर्यायगुणः, गुणपर्याययोः नयवादान्तरेण अभेदाभ्युपगमात् । स च निर्भजनारूप:, निश्चिता भजना= टि० १. ०ति व्याप्नोति तदु० ग ॥ २. मंथंतरयत्ति क च । मंथंतरे यत्ति ग घ ङ ॥ ३. भोउणज्ज ख । भोअणऽज्ज छ ठ ॥ ४ ० ऐरण्यवत० ख च ॥ ५. ० सुखाभास ख ॥ वि०टि० क् " निर्भजना निरंशोऽंशः सत्कर्म" जै०वि०प० ॥ १६१
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy