________________
[श्रु०१। अ०२। उ११। नि०१८१] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
"नयास्तट स्यात्पदसत्त्वलाञ्छिती, रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ॥"
[बृ०स्व०स्तो०६५] इत्यादि । स्वयूथ्यैरत्र बहु विजृम्भितमिति अलं विस्तरेण । एनमेव नियुक्तिकारः समस्तद्रव्यप्रधाने जीवद्रव्ये गुणं अभेदेन व्यवस्थितमाह[नि०] संकुचिय-वियसियत्तं एसो जीवस्स होइ जीवगुणो ।
पूरेइ हंदि लोगं बहुप्पएसत्तणगुणेणं ॥१८१॥ संकुचिय० गाहा । जीवो हि संयोगिवीर्यसद्व्यतया प्रदेशसंहार-विसर्गाभ्यां आधारवशात् प्रदीपवत् सङ्कचति विकसति च । एष जीवस्य आत्मभूतो गुणः, भेदं विनाऽपि षष्ठ्युपलब्धेः, तयथा-राहोः शिरः, शिलापुत्रकस्य शरीरमिति । तद्भव एव वा सप्तसमुद्घातवशात् सङ्कचति विकसति च । सम्यक्-समन्ततः उत्-प्राबल्येन हननम्इतश्च इतश्च आत्मप्रदेशानां प्रक्षेपणं समुद्घातः । स च कषाय-वेदना-मारणान्तिक-वैक्रियतैजसा-ऽऽहारक-केवलिसमुद्घातभेदात् सप्तधा । तत्र कषायसमुद्घातो अनन्तानुबन्धिक्रोधाद्युपहतचेतस आत्मा देशानां इतश्च इतश्च प्रक्षेप इति १। एवं तीव्रतरवेदनोपहतस्यापि. वेदनासमुद्घातः २। मारणान्तिकसमुद्घातो हि मुमूर्षारसुमत आदित्सितोत्पत्तिप्रदेशे आ .... लोकान्ताद् आत्मप्रदेशानां भूयो भूयः प्रक्षेप-संहाराविति ३। वैक्रि यसमुद्घातो वैक्रियलब्धिमतो वैक्रियोत्त, नाय बहिरात्मप्रदेशप्रक्षेपः ४। तैजससमुद्घातः तैजसशरीरेनिमित्ततेजोलेश्यालब्धिम : तेजोलेश्याप्रक्षेपावसरे इति ५। आहारकसमुद्घातः चतुर्दशपूर्वविद आहारकलब्धिमतः क्वचित् सन्देहापगमनाय तीर्थकरान्तिकगमनार्थं आहारकशरीरं उपादातुं बहिरात्मप्रदेशप्रक्षेपः ६। केवलिसमुद्घातं तु समस्तलोकव्यापितया अन्तर्नीतान्यसमुद्घातं नियुक्तिकारः स्वत एव आचष्टे- पूरयति-व्याप्नोति, हन्दि इति उपप्रदर्शने, किम् ? लोकं चतुर्दशरज्ज्वात्मकं आकाशखण्डम्, कुतः? बहुप्रदेशगुणत्वात्, तथा हि- उत्पन्नदिव्यज्ञान आयुषः अल्पत्वं अवधार्य वेदनीयस्य च प्राचुर्यं दण्डादिक्रमेण
टि०१. स्यात्पदलाञ्छना इमे. रसो०ख । स्यात्पदलाञ्छिता इमे ग घ ङ च ।। २. ०तोत्पत्तिप्रदेशेन आ० ग ॥ ३. निमित्तं तेजो० क-खपुस्तके विना ।। ४. प्राचुर्याद् दण्डादि० ग च ।।
वि०टि० + "द्वितीयाध्ययने उ०१-स्यात्पदरूपं यत् सत्य ?त्वं] तेन लाञ्छिताः" स०वि०प० ।। # "सयोगिवीर्य० इति सयोगीनि सचेष्टानि वीर्येण कृत्वा(ता)नि सन्ति विद्यमानानि द्रव्याणि मनो-वाक्कायपरिणतपुद्गलस्कन्धलक्षणानि यस्य तथा, तद्भावः तत्ता, तया ।" जै०वि०प० ।।
१६०