________________
द्रव्य-गुणयोर्भेदाभेदता [श्रु०१। अ०२। उ०१। नि०१८०] सचित्ता-ऽचित्त-मिश्रभेदभिन्ने स गुणः तादात्म्येन स्थितः । तत्र अचित्तद्रव्यं द्विधा–अरूपि रूपि च । अरूपिद्रव्यं त्रिधा- धर्मा-ऽधर्मा-ऽऽकाशभेदभिन्नं, तच्च गतिस्थित्यवगाहदानलक्षणं, गुणोऽपि अस्य अमूर्त्तत्वा-ऽगुरुलघुपर्यायलक्षणः, तत्र अमूर्त्तत्वं त्रयस्यापि स्वरूपम्, न भेदेन व्यवस्थितम्; अगुरुलघुपर्यायोऽपि तत्पर्यायत्वादेव मृदो मृत्पिण्ड-स्थास-कोश-कुशूलपर्यायवत् । रूपिद्रव्यमपि स्कन्ध-तद्देश-प्रदेश-परमाणुभेदम्, तस्य च रूपादयो गुणा अभेदेन व्यवस्थिता भेदेनानुपलब्धेः, संयोग-विभागाभावात् स्वात्मवत् ।
तथा सचित्तमपि उपयोगलक्षणलक्षितं जीवद्रव्यम्, न च तस्माद् भन्ना ज्ञानादयो गुणाः, तद्भेदे जीवस्य अचेतनत्वप्रसङ्गात् । तत्सम्बन्धाद् भवष्यतीति चेत्, अनुपासितगुरोरिदं वचः, यतः
"न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते ।" [ मी०श्लो०वा०४७]
न हि अन्धः प्रदीपशतसम्बन्धेऽपि रूपावलोकनाय अलमिति । अनयैव दिशा मिश्रद्रव्येऽपि एकत्वसंयोजना स्वबुद्ध्या कार्येति गाथार्थः ॥१८०॥
तदेवं द्रव्य-गुणयोः एकान्तेन एकत्वे प्रतिपादिते सति आह शिष्यः- तत् किमिदानी अभेदोऽस्तु ? नैतदपि अस्ति, यतः सर्वथा अभेदे अभ्युपगम्यमाने सति एकेनैव इन्द्रियेण गुणान्तरस्यापि उपलब्धेः अपरेन्द्रियवैफल्यं स्यात्, तथा हि- चूतफलरूपादौ चक्षुराद्युपलभ्यमाने रूपाद्यात्मभूतावयविद्रव्याऽव्यतिरि रसादेरपि उपलब्धिः स्याद् रूपादिस्वरूपवद्, एवं हि अभेदः स्याद् यदि आ पादौ समुपलभ्यमाने अन्येऽपि समुपलभ्ये रन्, अन्यथा विरुद्धधर्माध्यासाद् भिद्ये रन् घट-पटवदिति । तदेवं भेदाऽभेदोपपत्तिव्याकुलितमतिः शिष्यः पृच्छति-उभयथाऽपि दोषोपपत्तिदर्शनात् कथं गृह्णीमः ? । आचार्य आह-अत एव भेदाभेदोऽस्तु, तत्र अभेदपक्षे द्रव्यं गुणः; भेदपक्षे तु भावो गुण इति । तथा हि- गुण-गुणिनोः पर्याय-पर्यायिणोः सामान्य-विशेषयोः अवयवाऽवयविनोः भेदा-ऽभेदव्यवस्थानेनैव आत्मभावसद्भावात्, आह हि
"दव्वं पज्जवविजुयं दव्वविउत्ता य पज्जवा नत्थि । उप्पाय-ट्ठिइ-भंगा हंदि दवियलक्खणं एयं ॥''[सन्मति०१/१२ ]
टि० १. तत्रारूपिद्रव्यं च ॥ २. स्वं रूपम् घ-ङ ॥ ३. ०वियोगाभावात् ख ॥ ४. ततो भेदे घ ङ। तद्भेदेन जी० च ॥ ५. दोषापत्तिदर्शनात् च ॥ ६. ०भंगा इई हंदि(?) ग॥ वि०टि० क "स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् ।
न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते ॥" इति संपूर्णः श्लोकः ।
१५९