________________
[श्रु०१। अ०२। उ०१। सू०६२] . वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
विजिओ गाहा । विजित:=पराजितः, कोऽसौ ? कषायलोकः, औदयिकभावकषायलोक इति यावत् । विजितकषायलोक: सन् किमवाप्नोति ? इत्याह-संसारान्मुच्यते क्षिप्रम् । अतस्तस्माद् निवर्तितुं श्रेयः, खुः वाक्यालङ्कारे अवधारणे वा, निवर्तितुं श्रेयः एव । किं कषायलोकादेव निवृत्तः संसारात् मुच्यते आहोश्विद् अन्यस्मादपि पापोपादानहेतोः ? इति दर्शयति- कामेत्यादि, गाथार्धं सुगमम् ॥१७८।।
गतो नामनिष्पन्नो निक्षेपः । साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवति । तत्र अस्खलितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारणीयम्, तच्चेदम्[सू०] जे गुणे से मूलट्ठाणे, जे मूलट्ठाणे से गुणे ।
'जे गुणे से मूलट्ठाणे' इत्यादि सूत्रम् । अस्य च निक्षेपनियुक्त्यनुगमन प्रतिपदं निक्षेपः क्रियते । तत्र गुणस्य पञ्चदशधा निक्षेपः[नि०] दव्वे खेत्ते काले फल पज्जव गणण करण अब्भासे ।
गुणअगुणे अगुणगुणे भव सीलगुणे य भावगुणे ॥१७९॥ दव्वे खेत्ते गाहा । नामगुणः स्थापनागुणः द्रव्यगुणः क्षेत्रगुणः कालगुणः फलगुणः पर्यवगुणो गणनागुणः करणगुणः अभ्यासगुणः गुणागुणः अगुणगुणः भवगुणः शीलगुणः भावगुणश्चेति गाथासमासार्थः ॥१७९॥
तदेवं सूत्रानुगमेन सूत्रे समुच्चारिते निक्षेपनियुक्त्यनुगमेन तदवयवे निक्षिप्ते सति उपोद्घातनिर्युक्तेः अवसरः, सा च उद्देसेत्यादिना द्वारगाथाद्वयेन अनुगन्तव्या । साम्प्रतं सूत्रस्पर्शनिर्युक्तेः अवसरः, तत्रापि सुगमनाम-स्थापनाव्युदासेन द्रव्यादिकमाह[नि०] दव्वगुणो दव्वं चिय गुणाण जं तम्मि संभवो होइ। .
सच्चित्ते अच्चित्ते मीसम्मि य होइ दव्वम्मि ॥१८०॥ दव्वगुणो० गाहा । तत्र द्रव्यगुणो नाम द्रव्यमेव । किमिति ? गुणानां यतो गुणिनि तादात्म्येन सम्भवात् । ननु च द्रव्य-गुणयोः लक्षण-विधानभेदाद् भेदः, तथा हिद्रव्यलक्षणं- गुण-पर्यायवद् द्रव्यम्, विधानमपि धर्मा-ऽधर्मा-ऽऽकाश-जीवपुद्गलादिकमिति । गुणलक्षणं- द्रव्याश्रयिणः सहवर्तिनो निर्गुणा गुणा इति, विधानमपि ज्ञानेच्छा-द्वेष-रूप-रस-गन्ध-स्पर्शादयः स्वगतभेदभिन्ना इति; नैष दोषः, यतो द्रव्ये
टि० १. समुच्चरिते च ॥
१५८