________________
भावलोकविजयेन फलम् [श्रु०१ । अ०२ । उ०१ । नि०१७८ ] स्वामिना हेयोपादेयार्थाविर्भावनाय सदेव - मनुजायां परिषदि आचारार्थो बभाषे गणधरैश्च महामतिभिः अचिन्त्यशक्त्युपेतैः गौतमादिभिः प्रवचनार्थं अशेषासुभृदुपकाराय स एव आचाराङ्गतया ददृभे, आवश्यकान्तर्भूतः चतुर्विंशतिस्तु आरातीयकालभाविना भद्रबाहुस्वामिनाऽकारि, ततश्च अयुक्तः पूर्वकालभाविनि आचाराङ्गे व्याख्यायमाने पश्चात्कालभाविना चतुर्विंशतिस्तवेन अतिदेशः इति कश्चित् सुकुमारमतिः । अत्राह - नैष दोषः, यतो भद्रबाहुस्वामिनैव अयमतिदेशो अभ्यधायि, स च पूर्वं आवश्यक नियुक्ति विधाय पश्चाद् आचाराङ्गनिर्युक्तिं चक्रे, तथा चोक्तम्
‘आवस्सयस्स दसकालियस्स तह उत्तरज्झमायारे" [ आव०नि०८४ ]त्ति सूक्तम् । विजयस्य तु निक्षेपं नाम - स्थापने क्षुण्णत्वाद् अनादृत्य द्रव्यादिकमाह
दव्वं खेत्तमित्यादिना द्रव्यविजयो व्यतिरिक्तो द्रव्येण द्रव्याद् द्रव्ये वा विजयः कटु- तिक्त-कषायादिना श्लेष्मादेः नृपतिमल्लादेर्वा । क्षेत्रविजयः षट्खण्डभरतादेः, यस्मिन् वा क्षेत्रे विजयः प्ररूप्यते । कालविजय इति कालेन विजयः, यथा - षष्टिभिर्वर्षसहस्रैः भरतेनै जितं भरतम्, कालस्य प्राधान्यात्, भृतककर्मणि वा मासो अनेन जित इति, यस्मिन् वा काले विजयो व्याख्यायत इति । भावविजय औदयिकादेः भावस्य भावान्तरेण औपशमिकादिना विजयः ।
तदेवं लोक-विजययोः स्वरूपमुपदर्श्य प्रकृतोपयोगि आह
भवेत्यादि । अत्र हि भवलोकग्रहणेन भावलोक एव अभिहितः, छन्दोभङ्गभीत्या हुस्व एव उपादायि । तथा च अवाचि - " भावे कसायलोगो अहिगारो तस्स विजएणं" [आचा०नि०१७६] ति । तस्य औदयिकभावकषायलोकस्य औपशमिकादिभावलोकेन विजयो यत एतदत्र प्रकृतम् । इदमत्र हृदयम् - अष्टविधलोक - षड्विधविजययोः प्राग्व्यावर्णितस्वरूपयोः भावलोक-भावविजयाभ्यां अत्रोपयोग इति । यथा च अष्टप्रकारेण कर्मणा लोकः=प्राणिगणो बध्यते, बन्धस्योपलक्षणत्वाद् यथा च मुच्यत इति; एतदपि अत्राध्ययने प्रकृतमिति गाथार्थः || १७७|| तेनैव भावलोकविजयेन किं फलम् ? इत्याहविजिओ कसायलोगो सेयं खु तओ नियत्ति हो । कामणियत्तमई खलु संसारा मुच्चई खिप्पं ॥१७८॥ सूत्रम्—
[ नि० ]
ज झ ॥
46
टि० १. तत्राह । आह ख ॥ २. सूत्रम् च ॥ ३. ०न भरतं जितम् ख ॥ ४. नियत्तिओ ख
१५७