________________
[श्रु०१। अ०२। उ०१। नि०१७५] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् [नि०] लोगो त्ति य विजउ त्ति य अज्झयणे लक्खणं तु निप्फण्णं ।
गुण मूल ढाणं ति य सुत्तालावेण निप्फण्णं ॥१७५॥ लोगो त्ति य विजयो त्ति य गाहा । कण्ठ्या ॥१७५।।
तत्र यथोद्देशः तथा निर्देशः इति न्यायाद् लोक-विजययोः निक्षेपमाह[नि०] लोगस्स ये निक्खेवो अट्ठविहो छव्विहो य विजयस्स ।
भावे कसायलोगो अहिगारो तस्स विजएणं ॥१७६॥ लोगस्स य गाहा । तत्र लोक्यत इति लोकः, "लोक दर्शने' [पा०धा०१/७६] इति एतस्य धातोः “अकर्तरि च कारके सञ्ज्ञायाम्" [पा० ३/३/१९] इति घञ् । स च धर्मा-ऽधर्मास्तिकायव्यवच्छिन्नं अशेषद्रव्याधारं वैशाखस्थानस्थकॅटिन्यस्तकरयुग्मपुरुषोपलक्षितं आकाशखण्डं पञ्चास्तिकायात्मको वेति । तस्य निक्षेपोऽष्टधा नाम-स्थापनाद्रव्य-क्षेत्र-काल-भव-भाव-पर्ययभेदात् । ‘छव्विहो य विजयस्स' त्ति विजयः अभिभवः पराभवः पराजय इति पर्यायाः, तस्य निक्षेपः षड्विधो वक्ष्यते । तत्र अष्टप्रकारे लोके येन अत्र अधिकारः तमाह-'भावे कसायलोगो' त्ति भावलोकेन अत्र अधिकारः । स च भावः षट्प्रकार: औदयिकादिः । तत्रापि औदयिकभावकषायलोकेन अधिकारः, तन्मूलत्वात् संसारस्य । यद्येवं ततः किम् ? अत आह–'अहिगारो तस्स विजएणं' ति, अधिकार:=व्यापारः, तस्य औदयिकभावकषायलोकस्य विजयेन पराजयेनेति गाथार्थः ॥१७६।। तत्र लोकोऽष्टधा निक्षेपार्थं प्रोगुददेशि । विजयश्च षोढा, तन्निक्षेपार्थमाह[नि०] लोगो भणिओ, दव्वं खेत्तं कालो य भावविजओ य ।
भवलोग भावविजओ पगयं जह बज्झई लोगो ॥१७७॥ लोगो भणिओ गाहा । तत्र लोक: चतुर्विंशतिस्तवे विस्तरतो अभिहितः । ननु च केयं वाचोयुक्तिः 'लोकश्चतुर्विंशतिस्तवे अभिहितः?' इति; किमत्र अनुपपन्नम् ?; उच्यते- इह हि अपूर्वकरणप्रेक्रियाधिरूढक्षपक श्रेणिध्यानाग्निदग्धघातिकर्मेन्धनेन उत्पन्ननिरावरणज्ञानेन विपच्यमानतीर्थकरनामाविर्भूतचतुस्त्रिंशदतिशयोपेतेन श्रीवर्धमान
टि० १. लोग ख ज ठ विना ॥ २. विजय ठ ॥ ३. अज्झयणस्स क ॥ ४. चिय ख ॥ ५. सुत्तालावे य नि० ख ज ठ॥ ६. वि जपुस्तकमृते ॥ ७. उ ख ॥ ८. इत्यस्माद्धातोः ख च । इत्यस्य धातोः ग ॥ ९. ०व्यवस्थितमशेष० ख ॥ १०. ०कटिस्थकर० क घ ङ ।। ११. प्रागुपादेशि ख ॥ १२. ०प्रक्रमाधिरूढ० ख ग च ॥
१५६