________________
[श्रु०१ । अ०१ । उ०७। सू०६३ ]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
नाद् ज्ञानमेव परिगृह्यते, यतो न कदाचिदात्मनो गुणिनः तेन ज्ञानाख्येन गुणेन वियोगोऽस्ति, ततोऽसौ सहभावी गुणः । अतो बहुविधवक्तव्यं नयमार्गमवधार्य अपि सङ्क्षेपाद् ज्ञानचरणयोरेव स्थातव्यमिति निश्चयो विदुषाम् । न च अभिलषितप्राप्तिः केवलेन चरणेन, ज्ञानहीनत्वात्, अन्धगतिक्रियाप्रतिविशिष्टप्रदेशप्राप्तिवत् न च ज्ञानमात्रेण अभीष्टप्राप्तिः, क्रियाहीनत्वात्, चक्षुर्ज्ञानसमन्वितपङ्गुपुरुषसामिदग्धनगरमध्यव्यवस्थितयथावस्थितदर्शिज्ञानवत् । तस्मादुभयं प्रधानम्, नगरदाहनिर्गमे पवन्धसंयोगक्रियाज्ञानवत् ।
एवं इदं आचाराङ्गसन्दोहभूतं प्रथमाध्ययनं षड्जीवनिकायस्वरूपरक्षणाऽपायगर्भं आदि-मध्या-ऽवसानेषु दयैकरसमेकान्तहितापत्तिकारि मुमुक्षुणा यदाऽधीतं भवति सूत्रतः, शिंक्षकेण अर्थतः च अवधृतं भवति श्रद्धान-संवेगाभ्यां च यथादात्मीकृतं भवति; ततोऽस्य महाव्रतारोपणमुपस्थापनं परीक्ष्य निशीथाद्यभिहितक्रमेण सचित्तपृथिवीमध्यगमनादिना श्रद्दधानस्य सर्वं यथाविधि कार्यम् ।
कः पुनरुपस्थापने विधि : ? इति अत्रोच्यते - शोभनेषु तिथि-व - करण-नक्षत्र - मुहूर्त्तेषु द्रव्य-क्षेत्र - भावेषु च भगवतां प्रतिकृतीरभिवन्द्य प्रवर्धमानाभिः स्तुतिभिः, अथ पादपतितोत्थितः सूरिः सह शिष्येण महाव्रतारोपणप्रत्ययं कायोत्सर्गं उत्सार्य एकैकं महाव्रतमादितः आरभ्य त्रिरुच्चारयेद् यावद् निशिभक्तविरतिरविकला त्रिंरुच्चरिता । पश्चाद् इदं त्रिरुच्चरितव्यम्-ईच्चेयाइं पंच महव्वयाइं राईभोयणविरमणछट्टाई अत्तहियट्ठाए उवसंपज्जित्ता णं विहरामि । पश्चाद् वन्दनकं दत्त्वा उत्थितो अभिधत्ते अवनताङ्गयष्टिः 'संदिशत किं भणामि ?' इति । सूरिः प्रत्याह - ' वन्दित्वा अभिधत्स्व' इति । ऎवमुक्तोऽभिवन्द्य उत्थितो भणति - ' युष्माभिः मम महाव्रतानि आरोपितानि, इच्छामि अनुशिष्टिमिति । आचार्योऽपि प्रणिगदति - ' निस्तारकपारगो भव, आचार्यगुणैः वर्धस्व' |
टि० १. अन्धगमिक्रिया० घ ङ च । अन्धगामिक्रिया ग ॥ २. ०पुरुषअर्धदग्ध० ख घ ङ च ॥ ३. ०रक्षणोपाय० क खप्रती विना ॥ ४. शिष्यकेणा० च ॥ ५. ०दात्मीभूतं क ॥। ६. परीक्ष्य निरीक्ष्य निशी० ग ।। ७. शिक्षकेण ख च । ८. ०व्रताधिरोपण० ख ॥ ९. त्रिरुच्चार्य या० ख । त्रिरुच्चारयन् यावद् निशिभुक्तिविरति ० ग ।। १०. त्रिरुच्चारिता ग ॥ ११. इच्चेयाइं घ ङ च ॥ १२. अत्तहियट्टयाएकचपुस्तके विना ॥ १३. एव (मुक्तो) व (वं ) दित्वाऽभिवन्द्यो० ङ॥
वि०टि० = ०सामिऽर्धदग्ध० क । अत्र टिप्पणीभूतः ऽर्ध इति पाठः कप्रतिलेखकेन भ्रान्त्या मूले लिखितः प्रतिभाति । " सामि इति अर्धम् " जै०वि०प० । “सामिदग्धनगरम् अर्धनगरं दग्धम् " स०वि०प० ॥
१५०