________________
उपस्थापनाविधिः
[श्रु०१। अ०१ । उ०७। सू०६२]
वचनविरतिसमनन्तरं च सुरभिवासचूर्णमुष्टिं शिष्यशिरसि किरति । पश्चाद् वन्दनकं दत्त्वा प्रदक्षिणीकरोति आचार्यं नमस्कारमावर्तयन् पुनरपि वन्दते, तथैव च करोति सकलक्रियानुष्ठानम्, एवं त्रिः प्रदक्षिणीकृत्य विरमति शिष्यः । साधवश्च अस्य मूर्ध्नि युगपद् वासमुष्टीर्विमुञ्चन्ति सुरभिपरिमलाः, यतिजनसुलभके सराणि वा । पश्चात् कारितकायोत्सर्गः सूरिरभिदधाति - ' गणस्तव कोटिकः, स्थानीयं कुलम्, ४ वैरा शाखा, अमुकाभिधान आचार्य उपाध्यायश्च' । साध्व्याः प्रवर्तिनी तृतीया उद्देष्टव्या । यथाऽऽसन्नं च उपस्थाप्यमाना रैत्नाधिका भवन्ति । पश्चाद् आचाम्लं निर्विकृतिकं वा स्वगच्छसन्ततिसमायातमार्चरन्तीति ।
एवं एतदध्ययनमादि-मध्या -ऽन्तकल्याणकलापयोगि भव्यजनमनः-समाधानाधायि प्रियविप्रयोगादिदुः खावर्त बहुलकषायझषादिकु लाऽऽ कुलविषमसंसृतिसरित्तारणसमर्थं अमलदयैकरसं असकृदभ्यसितव्यं मुमुक्षुणा ।
॥ इति आचार्यश्रीशीलाङ्कविरचिता शस्त्रपरिज्ञाध्ययनका समाप्ता ॥ छ ॥ ग्रन्थाग्रेण द्वाविंशतिशतानि एकविंशत्यधिकानि, अङ्कतोऽपि २२२१ ॥ छ ॥
टि० १. ०वासपूर्णमुष्टिं च ॥ २. ०मुष्टिं च शिष्यस्य शिरसि ग ॥। ३. विरमति शेषाः साधव० च ॥। ४. वैराख्या शाखा कपुस्तकेन विना ॥ ५. रत्नाधिकीभवन्ति च ॥ ६. ० चरतीति ङ च ॥ ७. ०बहल० ख ॥। ८. ० विषयसं० क ॥ ९ ० विरचितशस्त्र ० क घ ङ ॥ १०. ०टीका परिसमाप्तेति ॥ छ ॥ ग्रन्थाग्रम् २२२१ ॥छ। ख ॥ ११. समाप्तेति ॥ छ ॥ श्री ॥ ग्रन्था० ङ । समाप्तेति ॥ छ ॥ ग्रन्थाग्रम् २३२१ ॥ च ॥१२. ०ण पञ्चविंश[ तिशतान्येकविंश ]त्यधिकानि । अङ्कतोऽपि २५२१ ॥ छ ॥
ग ॥
वि०टि० = " केशराणि इति पद्मकेशराणि" जै०वि०प० । “केसराणि कुंकुम- केसरव्यतिरिक्तं हट्टे द्रव्यम् ॥ समाप्तं प्रथमाध्ययनम् ॥” स०वि०प० ॥
१५१