SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ज्ञान-क्रियानयवादः [श्रु०१। अ०१ । उ०७। सू०६२] उक्तः सूत्रानुगमो निक्षेपश्च ससूत्रस्पर्शनिर्युक्तिः । सम्प्रति नया नैगमादयः । ते च अन्यत्र सुविचारिताः; सङ्क्षेपतस्तु सर्वेऽपि एते द्वेधा - ज्ञाननयाः चरणनयाश्च । तत्र ज्ञाननया ज्ञानमेव प्रधानं मोक्षसाधनमिति अध्यवस्यन्ति, हिता - ऽहितप्राप्ति - परिहारकारित्वाद् ज्ञानस्य, तत्पूर्वकसकलदुःखप्रहाणात् च ज्ञानमेव, न तु क्रिया । चरणनयास्तु चरणस्य प्राधान्यमभिदधति, अन्वय- व्यतिरेकसमधिगम्यत्वात् सैकलपदार्थानाम् । तथा हि- सत्यपि ज्ञाने सकलवस्तुग्राहिणि समुल्लसिते न चरणमन्तरेण भवधारणीयकर्मोच्छेदः, तदनुच्छेदाच्च मोक्षाऽलाभः, तस्माद् न ज्ञानं प्रधानम् । चरणे पुनः सँति मूलोत्तरगुणाख्ये घातिकर्मोच्छेदः, तदुच्छेदात् केवलावबोधप्राप्तिः, ततश्च यथाख्यातचारित्रवह्निज्वालाकलापप्रतापितसकलकर्मकन्दोच्छेदः, तदुच्छेदाद् अव्याबाधसुखलक्षणमोक्षावाप्तिरिति, तस्मात् चरणं प्रधानमिति अध्यवस्यामः । अत्रोच्यते—उभयमपि एतद् मिथ्यादर्शनम्, यत उक्तम्— " हयं नाणं कियाहीणं, हया अण्णाणओ किया । पासंतो पंगुलो दड्ढो, धावमाणो विं अंधओ ॥” [आव०नि०१०१, विशेषाव० ११५९ ] तदेवं सर्वेऽपि नयाः परस्परनिरपेक्षा मिथ्यारूपतया न सम्यग्भावमनुभवन्ति समुदितास्तु यथावस्थितार्थप्रतिपादनेन सम्यक्त्वं भवन्ति, यत उक्तम्— 44 " एवं सव्वे विनया मिच्छाद्दिट्ठी सपक्खपडिबद्धा । अन्नोन्नमीसिया पुण हवंति ते चेव सम्मत्तं ॥" [सन्मति०१।२१] तस्माद् उभयं परस्परसापेक्षं मोक्षप्राप्तयेऽलम्, न प्रत्येकं ज्ञानं चरणं चेति । निर्दोषः खल्वेष पक्ष इति व्यवस्थितम् । तथा च उभयप्राधान्यदिदर्शयिषया आह " सव्वेसि पि नयाणं बहुविधवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरण - गुणओ साहू ||" [आव०नि०१०६६,दशवै०नि० १५२, अनु०द्वा०१४१] -गुणौ, 'तयोः स्थितः -चरण-गुणस्थितः । गुणशब्दोपादा चरणं च गुणश्च=चरण टि० १. सर्वेऽप्येते द्वेधा भवन्ति - ज्ञान० ख च ॥ २ द्वेधीभवन्ति - ज्ञान० ग ॥। ३. सर्वपदा० ख च ॥ ४. सति सर्वमूलोत्तर० ग च ।। ५. तत्रोच्यते क ङ । ६. य ख घ ङ । उ ग । अ च ।। ७. मिथ्यात्वरूप० ख ग च ॥ ८. ०निरिसया च ॥ ९. ०गुणे ट्ठिओ क ॥ ८. तयोर्व्यवस्थितश्चर० ख || १४९
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy