________________
[श्रु०१।अ०१। उ०७।सू०६२] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् च अपरितुष्यन् अनैकान्तिकादिगुणयुक्ते संसारसुखे, मोक्षानुष्ठानमावि:कुर्वन् सर्वसमन्वागतप्रज्ञान आत्मा अभिधीयते । तेन एवंविधेन आत्मना, अकरणीयम् =अकर्तव्यं इह-परलोकविरुद्धत्वाद् अकार्यमिति मत्वा नान्वेषयेत् , न तदुपादानाय यत्नं कुर्यादित्यर्थः । किं पुनस्तदकरणीयं नान्वेषणीयम् ? इत्युच्यते-'पापं कर्म' अध:पतनकारित्वात् पापम्, क्रियत इति कर्म, तच्च अष्टादेशविधं प्राणातिपात-मृषावादा-ऽदत्तादान-मैथुन-परिग्रहक्रोध-मान-माया-लोभ-प्रेम-द्वेष-कलहा-ऽभ्याख्यान-पैशून्य-परपरिवाद-रत्यरतिमायामृषा-मिथ्यादर्शनशल्याख्यमिति । एवमेतत् पापमष्टादशभेदं नान्वेषयेत्=न कुर्यात् स्वयम्, न चान्यं कारयेत्, न कुर्वाणमन्यमनुमोदेत । एतदेव आह
तं परिण्णाय मेहावी णेव सयं छज्जीवणिकायसत्थं समारभेज्जा, णेवऽण्णेहिं छज्जीवणिकायसत्थं समारभावेज्जा, णेवऽण्णे छज्जीवणिकायसत्थं समारभंते समणुजाणेज्जा ।
जस्सेते छज्जीवणिकायसत्थसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ॥६२॥
॥ सत्थपरिण्णा समत्ता ॥ तं परिन्नाय मेहावीत्यादि । तत् पापमष्टादशप्रकारं परिः समन्ताद् ज्ञात्वा मेधावी =मर्यादावर्ती नैव स्वयं षड्जीवनिकायशस्त्रं स्वकाय-परकायादिभेदं समारभेत, नैवान्यैः समारम्भयेत्, न च अन्यान् समारभमाणान् समनुजानीयात् । एवं यस्यैते सुपरीक्ष्यकारिणः षड्जीवनिकायशस्त्रसमारम्भा: तद्विषयाः पापकर्मविशेषाः परिज्ञाता ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च स एव मुनिः, प्रत्याख्यातकर्मत्वात् प्रत्याख्याताशेषपापापगमत्वात्, तदन्यैवंविधपुरुषवदिति, इतिशब्दः अध्ययनपरिसमाप्तिप्रदर्शनाय, ब्रवीमि इति सुधर्मस्वामी आह स्वमनीषिकाव्यावृत्तये, भगवतोऽपनीतघनघातिकर्मचतुष्टयस्य समासादिताशेषपदार्थाविर्भावकदिव्यज्ञानस्य प्रणताशेषगीर्वाणाधिपतेश्चतुस्त्रिंशदतिशयसमन्वितस्य श्रीवर्धमानस्वामिन उपदेशात् सर्वं एतदाख्यातं यदतिक्रान्तं मया इति ॥६२।।
टि० १. नोऽन्वेषयेत् ख ॥ २. ०दशभेदं ख च ॥ ३. ०वाद-मायामृषा-रत्यरति-मिथ्या० घ ङ । ०वाद-रति-अरति-मिथ्या० (?) क ॥ ४. ०मष्टादशविधं नान्वेषयेत् नो कुर्यात् स्वयम्, न कारयेदन्यम्, न कुर्वाणमप्यनुमोदेत ख ॥ ५. सर्वतः ख ॥ ६. मर्यादावान् ख च ॥
१४८