________________
षड्जीवनिकायारम्भनिवृत्तः वसुमान् [श्रु०१। अ०१। उ०७। सू०६२] 'छंदोवणीया अज्झोववन्ना' । छन्दः स्वाभिप्राय इच्छामात्रमनालोचितपूर्वा-ऽपरं विषयाभिलाषो वा, तेन छन्देन उपनीता:=प्रापिता आरम्भमार्ग अविनीता अपि विनयं भाषन्ते। अधिकम्-अत्यर्थम् उपपन्ना:-तच्चित्ताः तदात्मका: अध्युपपन्ना, विषयपरिभोगायत्तजीविता इत्यर्थः । य एवं विषयाशाकर्षितचेतसः ते किं कुर्युः ? इत्याह
'आरंभसत्ता पकरेंति संगं' । आरम्भणं आरम्भः सावद्यानुष्ठानं, तस्मिन् सक्ताः =तत्पराः प्रकर्षेण कुर्वन्ति, सज्यते येन संसारे जीवः स सङ्गः, अष्टविधं कर्म विषयसङ्गो वा, तं सङ्गं प्रकुर्वन्ति । सङ्गाच्च पुनरपि संसारः, आजवंजवीभावरूपः, एवंप्रकारं अपायमवाप्नोति षड्जीवनिकायघातकारीति । ___ अथ यो निवृत्तः तदारम्भात् स किंविशिष्टो भवति ? इत्यत आह
से वसुमं सव्वसमण्णागतपण्णाणेणं अप्पाणेणं अकरणिज्जं पावं कम्मं णो अण्णेसिं ।
से वसुममित्यादि । स इति पृथिव्युद्देशकाद्यभिहितनिवृत्तिगुणभाक् षड्जीवनिकायहनननिवृत्तः, वसुमान् वसूनि द्रव्य-भावभेदाद् द्विधा, द्रव्यवसूनि मरकतेन्द्र-नीलवज्रादीनि, भाववसूनि सम्यक्त्वादीनि, तानि यस्य यस्मिन् वा सन्ति स वसुमान्, द्रव्यवानित्यर्थः; इह च भाववसुभिः वसुमत्त्वमङ्गीक्रियते । प्रज्ञायन्ते यैः तानि प्रज्ञानानि यथावस्थितविषयग्राहीणि ज्ञानानि, सर्वाणि समन्वागतानि प्रज्ञानानि यस्य आत्मनः स =सर्वसमन्वागतप्रज्ञानः सर्वावबोधविशेषानुगतः, सर्वेन्द्रियज्ञानैः पटुभिः यथावस्थितविषयग्राहिभिः अविपरीतैः अनुगत इति यावत्, तेन सर्वसमन्वागतप्रज्ञानेन आत्मना । अथवा सर्वेषु द्रव्य-पर्यायेषु सम्यगनुगतं प्रज्ञानं यस्य आत्मनः स-सर्वसमन्वागतप्रज्ञान आत्मा, 'भगवद्वचनप्रामाण्याद् एवं एतद् द्रव्य-पर्यायजालं, नान्यथा' इति सामान्य-विशेषपरिच्छेदाद् निश्चिताशेषज्ञेयप्रपञ्चस्वरूपः सर्वसमन्वागतप्रज्ञान आत्मा इति उच्यते । अथवा शुभा-ऽशुभफलसकलकलापपरिज्ञानाद् नरक-तिर्यङ्-नरा-ऽमर-मोक्षसुखस्वरूपपरिज्ञानात्
-
टि० १. छन्द(न्द)सोपनीताः च ॥ २. पगरंति क ङ। पकरंति घ ॥ ३. सज्यन्ते येन संसारे जीवाः स ङ॥ ४. संसारः । पुनस्तत्रैवोत्पत्तिः आजवं० ग । संसारः । पुनरपि तत्रैवोत्पत्तिः आजवं० घ ङ ।। ५. ०नील-वैडूर्य-वज्रा० ख ।। ६. आत्मेत्युच्यते । अथवा शुभाशुभफले भागवद्वचन० च ॥ ७. ०तिर्य मनुष्या-ऽमर० ख च ॥ ८. ०मोक्षस्वरूप० च ॥
वि०टि० + "अजीव[?आजवं०] इति तत्रैव पुनः पुनर्भवनम्" जै०वि०प० ॥
१४७