SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् [श्रु०१। अ०१ । उ०७ । सू०६२] बेमि ॥५७-६१ ॥ सम्प्रति षड्जीवनिकायविषयवधकारिणां अपायदिदर्शयिषया तन्निवृत्तिकारिणां च सम्पूर्णर्मुनित्वप्रदर्शनाय सूत्राणि प्रक्रम्यन्ते [सू० ] एत्थं पि जाण उवादीयमाणा, जे आयारे ण रमंति आरंभमाणा विणयं वयंति छंदोवणीया अज्झोववण्णा आरंभसत्ता पकरेंति संगं । एत्थं पि जाणेत्यादि । एतस्मिन्नपि प्रस्तुते वायुकाये, अपिशब्दात् पृथिव्यादिषु च समाश्रितमारम्भं ये कुर्वन्ति ते उपादीयन्ते, कर्मणा बध्यन्त इत्यर्थः । एकस्मिन् जीवनिकाये वैधप्रवृत्ताः शेषनिकायवधजनितेन कर्मणा बैध्यन्ते । किमिति ? यतो न हि एकजीवनिकायविषय आरम्भः शेषजीवनिकायोपमर्दमन्तरेण कर्तुं शक्यत इत्यतः त्वमेवं जानीहि, श्रोतुरनेन परामर्शः । अत्र च द्वितीयार्थे प्रथमा; ततश्च एवमन्वयो लगयितव्यःपृथिव्याद्यारम्भिणः शेषकायारम्भकर्मणा उपादीयमानान् जानीहि । के पुनः पृथिव्याद्यारम्भिणः कर्मणा उपादीयन्ते ? इत्याह 'जे आयारे न रमंति' । ये हि अविदितपरमार्था ज्ञान-दर्शन-चरण- तपो - वीर्याख्ये पञ्चप्रकारे आचारे न स्मैन्ते - न धृतिं कुर्वन्ति; तदधृत्या च पृथिव्याद्यारम्भिणः तान् कर्मभिः उपादीयमानान् जानीहि । के पुनराचारे न रमन्ते ? शाक्य - दिगम्बर-पार्श्वस्थादयः । किमिति ? यत आह 'आरंभमाणा विणयं वयंति' । आरम्भमाणा अपि पृथिव्यादीन् जीवान् विनयं =संयममेव भाषन्ते, कर्माष्टकविनयनाद् विनयः = संयमः । शाक्यादयो हि वयमपि विनयव्यवस्थिता इत्येवं भाषन्ते, न च पृथिव्यादिजीवाभ्युपगमं कुर्वन्ति; तदभ्युपगमे वा तदाश्रितारम्भित्वाद् ज्ञानाद्याचारविकलत्वेन नष्टशीला इति । किं पुनः कारणं येन एवं ते दुष्टशीला अपि विनयव्यवस्थितं आत्मानं भाषन्ते ? इत्यत आह— टि० १. ०मुनिभावप्रद० ख च । ० मुनित्वभावप्रद० ग ॥ २. वधप्रवृत्तः ख च ऋते ॥ ३. बध्यते ख च विना ।। ४. ०मन्ते निवृत्तिं कुर्वन्ति क ॥ १४६
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy