________________
[श्रु०१। अ०१। उ०७। सू०५६] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् कुतः तस्य बहिर्व्यवस्थितवायुकायादिव्यपेक्षा? । यश्च बहिर्जानाति सोऽध्यात्म यथावदवैति, इतरेतराव्यभिचारादिति । परात्मविज्ञानात् च यद् विधेयं तद् दर्शयितुमाह
एयं तुलमण्णेसिमित्यादि । एतां तुलां यथोक्तलक्षणां अन्वेषयेद्-गवेषयेदिति । का पुनरसौ तुला ? यथाऽऽत्मानं सर्वथा सुखाभिलाषितया रक्षसि तथा परमपि रक्ष, यथा परं तथा आत्मानमिति । एतां तुलां तुलितस्व-परसुख-दुःखानुभवोऽन्वेषयेद्, एवं कुर्यादित्यर्थः। उक्तं च
"कटेण कंटएण व पाए विद्धस्स वेयणट्टस्स ।
जा होइ अणिव्वाणी सव्वत्थ जिएसु तं जाण ॥" [ ] तथा- "मरिष्यामीति यद् दुःखं पुरुषस्योपजायते ।
शक्यस्तेनानुमानेन परोऽपि परिरक्षितुम् ॥' [ ]
अतश्च यथाऽभिहिततुलातुलितस्व-परान्तराः स्थावर-जङ्गमजन्तुसङ्घातसंरक्षणाय एव प्रवर्तन्ते । कथमिति ? दर्शयति
इहेत्यादि । इह-एतस्मिन् दयैकरसे जिनप्रवचने, शमनं-शान्तिः उपशमः, प्रशमसंवेग-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्याभिव्यक्तिलक्षणसम्यग्दर्शन-ज्ञान-चरणकलापः शान्तिरुच्यते, निराबाधमोक्षाख्यशान्तिप्राप्तिकारणत्वात् । तामेवंविधां शान्ति गताः-प्राप्ताः =शान्तिगताः, शान्तौ वा स्थिताः शान्तिगताः, द्रविका नाम राग-द्वेषविनिर्मुक्ताः, द्रवः संयमः सप्तदशविधानः, कर्मकाठिन्यद्रवणकारित्वाद् विलयहेतुत्वात्, स येषां विद्यते ते द्रविकाः नावकाङ्क्षन्ति न वाञ्छन्ति, नाभिलषन्तीत्यर्थः । किं नावकाङ्क्षन्ति ? जीवितुं प्राणान् धारयितुम् । केन उपायेन जीवितुं नाभिकाङ्क्षन्ति ? वायुजीवोपमर्दनेन इत्यर्थः, शेषपृथिव्यादिजीवकायसंरक्षणं तु पूर्वोक्तमेव । समुदायार्थः तु अयम्- इहैव जैने प्रवचने यः संयमः तव्यवस्थिता एव उन्मूलितातितुङ्गराग-द्वेषद्रुमाः परभूतोपमर्दनिष्पन्नसुखजीविकानिरभिलाषाः साधवः, नान्यत्र, एवंविधक्रियावबोधाभावादिति ॥५६॥
एवं च स्थिते
टि०१.०कायादिष्वपेक्षा कप्रतेविना ॥ २. परात्मपरिज्ञानाच्च ख च ।। ३. जह ग ॥ ४. तह खप्रत्या विना ।। ५. किं ? जीवितुं क ।। ६. एवं व्यवस्थिते ख । एवं च स्थिते सति ग घ ङ। एवं व्यवस्थिते सति च ॥
१४४