SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०१ । उ०७। सू०५६] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् " इति ? "एजृ कम्पने " [पा०धा०१।२३४] एजतीति एजः वायुः कम्पनशीलत्वात् । तस्य एजस्य जुगुप्सा निन्दा तदासेवनपरिहारो निवृत्तिरिति यावत्, तस्यां = तद्विषये प्रभुर्भवति, वायुकायसमारम्भनिवृत्तौ शक्तो भवतीति यावत् । पाठान्तरं वा— ‘पभू य एगस्स दुगुंछणाए' उद्रेकावस्थावर्तिना एकेन गुणेन स्पर्शाख्येनोपलक्षित इति एकः वायुः तस्यैकविधस्य एकगुणोपलक्षितस्य वायोः जुगुप्सायां प्रभुः । चशब्दात् श्रद्धाने च प्रभुः भवर्ति, श्रद्धाय च जीवतया जुगुप्सते । ततः योऽसौ वायुकायसमारम्भनिवृत्तौ प्रभुः उक्तः तं दर्शयति ४ आयंकेत्यादि । 'तकि कृच्छ्रजीवने"[पा०धा०१।११८] इति आतङ्कनम्=आतङ्कः, कृच्छ्रजीवनं दुःखम् । तच्च द्विविधं - शारीरं मानसं च । तत्राद्यं कण्टक-क्षार-शस्त्र-गण्डलूतादिसमुत्थम्, मानसं प्रियविप्रयोगा- ऽप्रियसम्प्रयोगेप्सितालाभ-दारिद्र्य-दौर्मनस्यादिकृतम्; एतदुभयमातङ्कः, एनं आतङ्कं पश्यति तच्छीलश्च इति आतङ्कदर्शी 'अवश्यं एतदुभयमपि दुःखमापतति मयि अनिवृत्तवायुकायसमारम्भे'; ततश्च एतद् वायुकायसमारम्भणं आतङ्कहेतुभूतं अहितमिति ज्ञात्वा एतस्माद् निवर्तने प्रभुः भवतीति । यदि वा आतङ्को द्वेधा द्रव्यभावभेदात् । तत्र द्रव्यातङ्के इदमुदाहरणम्—– जंबुद्दीवे दीवे भारहवासम्मि अत्थि सुपसिद्धं । बहुणयगुणपसिद्धं रायगिहं नाम नयरं ॥१॥ तत्थासि गरुयदरियारिमद्दणो भुंयणनिग्गयपयावो । अहिगयजीवा -ऽजीवो राया नामेण जियसत्तू ||२|| अणवरयगरुयसंवेगभाविओ धम्मघोसपामूले । सो अण्णया कयाई पमादिणं पास सेहं | | ३ || चोइज्जंतमभिक्खं अवराहं तं पुणो वि कुणमाणं । तस्स हियऽङ्कं राया सेसाण य रक्खणट्टाए ॥४॥ आयरियाणुन्नाए आणावइ सो उ णिययपुरिसेहिं । तिव्वुक्कडदव्वेहिं संधियपुव्वं तहिं खारं ॥५॥ पक्खित्तो जत्थ णरो णवरं गोदोहमेत्तकालेण । निज्जिन्नमंस - सोणिय अट्ठियसेसत्तणमुवेइ ||६|| दो ताहे पुव्वमए पुरिसे आणावए तहिं राया । एवं गिहत्थवेसं बीयं पासंडिणेवत्थं ॥७॥ टि० १. ० वृत्तो भवतीति क । ०वृत्तौ समर्थो भवतीति ग घ ङ । २. ०ति । अर्थाद् यदि श्रद्धाय जी० कप्रतिमृते ॥ ३. जीविताय ख ॥ ४. कटुकक्षारशस्त्र ० ग च ॥ ५. ज्ञात्वैतस्मिन् नि० घ ङ ॥ ६. निवर्तते ख च ॥ ७ द्वेधा - द्रव्यातङ्को भावातङ्कश्च । तत्र क-गपुस्तके विना ॥ ८. भरहे वा० ग । भारहे वा० ङ । ९. ० गुणसमेयं रा० ख घ ङ च । ०गुणसमिद्धं रा० ग ।। १०. भुवण० ख ग घ ङ । भुअण० च ।। ११. पासंडणेवच्छं ग घ ङ । पासंडिणेवच्छं क ख ॥ १४२
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy