________________
वायुसमारम्भनिवृत्तौ प्रभुः [श्रु०१। अ०१। उ०७। सू०५६] धारणा, तथा गन्धा: चन्दनोशीरादीनाम्, अग्नि[:] ज्वाला प्रतापश्च, तथा प्रतिपक्षवातश्च शीतोष्णादिकः । प्रतिपक्षवायुग्रहणेन स्वकायादिशस्त्रं सूचितमिति । एवं भावशस्त्रमपि दुष्प्रणिहितमनो-वाक्-कायलक्षणं अवगन्तव्यमिति ॥१७०।।
अधुना सकलनियुक्त्यर्थोपसञ्जिहीर्षया आह[नि०] सेसाई दाराई ताइं जाइं हवंति पुढवीए ।
एवं वाउद्देसे निज्जुत्ती कित्तिया ऐसा ॥१७२॥
॥प्रथमाध्ययनम् ॥छ॥ सेसाइमित्यादि । शेषाणि उक्तव्यतिरिक्तानि तानि एव द्वाराणि पृथिवीसमधिगमे यानि अभिहितानीति । एवं सकलद्वारकलापव्यावर्णनाद् वायुकायोद्देशके नियुक्तिः कीर्तिता एषा अवगन्तव्या इति ॥१७२।।
गतो नामनिष्पन्नो निक्षेपः । साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रं उच्चारणीयम्, तच्चेदम्[सू०] पभू एजस्स दुगुंछणाए आतंकदंसी अहियं ति णच्चा ।
जे अज्झत्थं जाणति से बहिया जाणति, जे बहिया जाणति से अज्झत्थं जाणति । एतं तुलमण्णेसिं ।
इह संतिगता दविया णावकंखंति जीविउं ॥५६॥
'पहू एंजस्स दुगुच्छणाए' त्ति । अस्य च अयमभिसम्बन्धः- इह अनन्तरोद्देशके पर्यन्तसूत्रे त्रसकायपरिज्ञानं तदारम्भवर्जनं च मुनित्वकारणमभिहितम्, इहापि तदेव द्वयं वायुकायविषयं मुनित्वकारणमेव उच्यते । तथा परम्परसूत्रसम्बन्धः-इहमेगेसिं नो णायं भवइ त्ति, किं न ज्ञातं भवति ? पहू एजस्स दुगुंछणाए त्ति । तथाऽऽदिसूत्रसम्बन्धश्च सुयं मे आउसंतेणेत्यादि, किं तत् श्रुतम् ? यत् प्रागुपदिष्टं तथैतत् च पहू एजस्स गुंछणाए त्ति ।
दुगुंछण त्ति जुगुप्सा, प्रभवतीति प्रभुः समर्थो योग्यो वा, कस्य वस्तुनः समर्थः
टि० १. प्रतिपक्षिवायु० क ॥ २. ०सञ्जिहीर्षुराह ग ॥ ३. एसा ॥१७२॥ प्रथममध्ययनम् ख । एसा ॥१७॥छ। आयारस्स पढमज्झयणणिज्जत्ती सम्मत्ता ॥छ। ज॥ ४. एज्जस्स च ॥ ५. इहां भवइ त्ति । किं तद् ज्ञातं भवति ? ख विना ।। ६. दुगंछणाए घ च ॥
१४१