________________
[श्रु०१। अ०१। उ०७। नि०१६९]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
जे बायरेत्यादि । ये बादरपर्याप्तका वायवः ते संवर्तितलोकप्रतराऽसङ्ख्येयभागवर्तिप्रदेशपरिमाणाः । शेषाः त्रयोऽपि राशयः विष्वक् पृथग् असङ्ख्येयलोकाकाशप्रदेशपरिमाणा भवन्ति । विशेषश्च अयमत्र अवगन्तव्यः - बादराप्कायपर्याप्तकेभ्यो बादरवायुपर्याप्तका असङ्ख्येयगुणाः, बादराप्कायापर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्ख्येयगुणाः, सूक्ष्माप्कायापर्याप्तकेभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिकाः, सूक्ष्माप्कायपर्याप्तकेभ्यः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः ॥ १६८ ॥ उपभोगद्वारमाहवियण धेमणाऽहिधारण उस्सिंघण फूसणाऽऽणुपाणू य । बायरवाउक्काये उवभोगगुणो मणुस्साणं ॥ १६९ ॥ दारं ॥
[ नि० ]
वियणेत्यादि । व्यजन-भैस्त्राध्माना -ऽभिधारणा - उत्सिङ्घन-फूत्कार- प्राणापानादिभिः बादरवायुकायेन उपभोग एव गुण:- उपभोगगुणो मनुष्याणामिति ॥ १६९॥ शस्त्रद्वाराभिधित्सया आह- तत्र शस्त्रं द्रव्य- भावभेदाद् द्विविधम् । द्रव्यशस्त्राभिधि
त्सया आह
[ नि० ]
[ नि० ]
वियणे य तालवेंटे सूप्प सिए पत्त चेलकन्ने य । अभिधारणा य बाहिं गंधऽग्गी वाउ सत्थाई ॥ १७० ॥ 'किंची सकायसत्थं किंची परकाय तदुभयं किंची । एयं तु दव्वसत्थं भावे अस्संजमो सत्थं ॥१७१॥ वियणेत्यादि । व्यजन- तालवृन्त - सूर्प- सित - पत्र - चेलकर्णादयः द्रव्यशस्त्रमिति; तत्र सितम् इति चामरम् । प्रस्विन्नो यद् बहिरवतिष्ठते वातागमनमार्गे साऽभि
टि० १. धमणाधिधारण ख । धमणाभिधारण झ ञ ठ ॥ २. उवभोगगुणा ख ठ ॥ ३. ०भस्त्राध्माता० च ।। ४ ० उत्सिङ्घन - पूत्कार० घ ङ ॥ ५. ० कायेनोपभोगविधिमनुष्याणामिति ख ॥। ६. सुव सिए ख ज झ ठ विना सूय सिए छ । ७. अभिधारणाहिँ बाहिं क ॥ ८. किंची स० ॥ १७१ ॥ ठ ॥ झ-ञ प्रत्योरियं पङ्क्तिर्नास्ति । एतत्प्रत्यन्तरानुसारेणैव टीका ॥ यद्यपि १७१ गाथासंसूचकैतत्पाठानुपलम्भात् टीकाकृद्भिरेतत्पूर्वगाथान्तवर्ति 'वाउसत्थाई' इति सामासिकं पदं विभज्य स्वकायादिशस्त्रं अध्याहारेण च भावशस्त्रं सूचितं परम् 'उद्देशषट्के विलिख्य लाघवार्थमन्त्योद्देशके न रचयेदेतां गाथाम्' इत्येतस्यायुक्तियुक्तत्वात् । भावशस्त्रानध्याहार्यं च सुष्ठु इति कृत्वा अस्मादुपयुक्तासु झ ञप्रतिवर्जासु पञ्चस्वपि प्रतिष्वेतद्गाथाखण्डोपलब्धेश्च टीकाकृदव्याख्यातोऽप्येष पाठो मूले स्थापितः ॥ अनेन च १७० गाथान्तवर्तिनः 'वाउसत्थाई' इत्यस्य वायोः शस्त्राणि वायुशस्त्राणि इत्यर्थोऽधिगम्यः ॥
१४०