________________
देवान्तर्हितशरीरवद् वातोश्चैतन्यम् [श्रु०१। अ०१। उ०७। नि०१६८] शुद्धवातः । ये तु अन्ये प्रज्ञापनादौ प्राच्यादिवाता अभिहिताः तेषां एषु एव यथायोगं अन्तर्भावो दृष्टव्य इति । एवं एते बादरवायुविधाना भेदाः पञ्चविधाः =पञ्चप्रकारा व्यावर्णिता इति ॥१६६।। लक्षणद्वाराभिधित्सया आह[नि०] जह देवस्स सरीरं अंतद्धाणं च अंजणादीसु ।
ऐओवम आएसो वाएऽसंते वि रूवम्मि ॥१६७॥ दारं ॥ ___जह देवस्सेत्यादि । यथा देवस्य शरीरं चक्षुषा अनुपलभ्यमानमपि विद्यते, चेतनावत् च अध्यवसीयते । देवाः स्वशक्तिप्रभावात् तथाभूतं रूपं कुर्वन्ति यत् चक्षुषा नोपलभ्यते, न चैतद् वक्तुं शक्यते–'नास्ति, अचेतनं च' इति । तद्वद् वायुरपि चक्षुषो विषयो न भवति, अस्ति च चित्तवांश्चेति । यथा च अन्तर्धानमञ्जन-विद्या-मन्त्रैर्भवति मनुष्याणाम्, न च नास्तित्वमचेतनत्वं चेति; एतदुपमानो वायावपि भवति आदेशः व्यपदेशोऽसत्यपि रूप इति । अत्र च असच्छब्दो नाऽभाववचनः, किन्तु असद्रूपं वायोरिति । चक्षुर्ग्राह्यं तद्रूपं न भवति, सूक्ष्मपरिणामात् परमाणोरिव, रूप-रस-गन्ध-स्पर्शात्मकश्च वायुरिष्यते, न यथा अन्येषां वायुः स्पर्शवानेव इति ।।
प्रयोगार्थश्च गाथया प्रदर्शितः । प्रयोगश्चायम्-चेतनावान् वायुः, अ-परप्रेरिततिर्यगऽनियमितदिग्गतिमत्त्वाद्, गवाश्वादिवत् । तिर्यगेव गमननियमाभावाद् अनियमितविशेषणोपादानात् च परमाणुना अनैकान्तिकाऽसम्भवः, तस्य नियमितगतिमत्त्वात्, जीव-पुद्गलयोः "अनुश्रेणि गतिः" [तत्त्वार्थ०२।२७] इति वचनात् । एवमेष वायुः घन-शुद्धवातादिभेदो अशस्त्रोपहतः चेतनावान् अवगन्तव्य इति ॥१६७॥ परिमाणद्वारमाह[नि०]
जे बायरपज्जत्ता पयरस्स असंखभार्गमेत्ता ते । सेसा तिन्नि वि रासी वीसुं लोया असंखेज्जा ॥१६८॥ दारं ॥
टि० १. ०विधानानि भेदाः ख च ॥ २. एतोवमयाएसो ञ ॥ ३. यथा वाऽन्त० चपुस्तकमृते ।। . एतदुपमानेन वाया० ख ।। ५. ०परिमाणात् ख ग ङ॥ ६. गमेत्तातो छ । गमेत्ताए झ ।। ७. वीसं
वि०टिक "से किं तं बादरवाउकाइया ? बादरवाउकाइया अणेगविहा पण्णत्ता । तं जहा-पाईणवाए पडीणवाए दाहिणवाए उदीणवाए उड्डवाए अहोवाए तिरियवाए विदिसीवाए वाउब्भाम वाउक्कलिया वायमंडलिया उक्कलियावाए मंडलियावाए गुंजावाए झंझावाए संवट्टवाए घणवाए तणुवाए सुद्धवाए । जे यावण्णे तहप्पगारा ।" [प्रज्ञा० सू० १९] ।। ॐ नैयायिकमते वायुः स्पर्शवानेव इष्यते ।।
१३९