SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ॥ सप्तमो वायूद्देशकः ॥ उक्तः षष्ठोद्देशकः । साम्प्रतं सप्तमः समारभ्यते । अस्य च अयमभिसम्बन्धःअभिनवधर्माणां दुःश्रद्धानत्वाद् अल्पपरिभोगत्वाद् उत्क्रमायातस्य उक्तशेषस्य वायोः स्वरूपनिरूपणार्थं इदं उपक्रम्यते । तदनेन सम्बन्धेन आयातस्य अस्य उद्देशकस्य उपक्रमादीनि चत्वारि अनुयोगद्वाराणि वाच्यानि यावद् नामनिष्पन्ने निक्षेपे वायूद्देशक इति । तत्र वायोः स्वरूपनिरूपणाय कतिचिद्द्वारातिदेशगर्दा नियुक्तिकृद् गाथामाह[नि०] वाउस्स वि दाराई ताई जाइं हवंति पुढवीए । णाणत्ती उ विहाणे परिमाणुवभोग-सत्थे य ॥१६४॥ वाउस्स वीत्यादि । वातीति वायुः, तस्य वायोरपि तानि एव द्वाराणि यानि पृथिव्यां प्रतिपादितानि । नानात्वं भेदः, तच्च विधान-परिमाण-उपभोग-शस्त्रेषु, चशब्दाद् लक्षणे च दृष्टव्यमिति ॥१६४॥ तत्र विधानप्रतिपादनाय आह[नि०] दुविहा ये वाउजीवा सुहुमा तह बायरा य लोयम्मि । सुहुमा य सव्वलोए पंचेव य बायरविहाणा ॥१६५॥ दुविहेत्यादि । वायुरेव जीवाः वायुजीवाः, ते च द्विविधाः-सूक्ष्मबादरनामकर्मोदयात् सूक्ष्मा बादराश्च । तत्र सूक्ष्माः सकललोकव्यापितयाऽवतिष्ठन्ते, दत्तकपाटसकलवातायनद्वारगेहान्तधूमवद् व्याप्त्या स्थिताः । बादरभेदास्तु पञ्चैव अनन्तरगाथया वक्ष्यमाणा इति ॥१६५।। बादरभेदप्रतिपादनाय आह[नि०] उक्कलिया मंडलिया गुंजा-घणवाय-सुद्धवाया य । बायरवाउविहाणा पंचविहा वणिया एए ॥१६६॥ दारं ॥ उक्कलिएत्यादि । स्थित्वा स्थित्वा उत्कलिकाभिः यो वाति स उत्कलिकावातः, मण्डलिकावातस्तु वातोली, गुञ्जा=भम्भा, तद्वद् गुञ्जन् यो वाति स गुञ्जावात: । घनवातः अत्यन्तघनः पृथिव्याद्याधारतया व्यवस्थितो हिमपटलकल्पः, मन्दस्तिमितः शीतिकादिषु टि० १. वायुस्स क-खप्रती विना ॥ २. उ क ठ ॥ ३. उठ ॥ ४. शीतकादिषु क । शीतकालादिषु ग ङ च ॥ वि०टि० "शीतिका झटिका" स०वि०प० ॥ १३८
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy