________________
त्रसकायसमारम्भपरिज्ञाता मुनिः [श्रु०१। अ०१। उ०६। सू०५५] तिमिरापहारित्वात् तद्दन्तानाम्, दंष्ट्रार्थं वराहादयः, नखार्थं व्याघ्रादयः, स्नाय्वर्थं गोमहिष्यादयः, अस्थ्यर्थं शङ्खशुक्त्यादयः, अस्थिमिञ्जार्थं महिष-वराहादयः । एवमेके यथोपदिष्टप्रयोजनकलापापेक्षया घ्नन्ति । अपरे तु कृकलास-गृहकोकिलकादीन् विना प्रयोजनेन व्यापादयन्ति । ___अन्ये पुनः हिंसिंसु मि त्ति वेति "हिंसितवान् एषो अस्मत्स्वजनान् सिंह: सर्पः अरिः वा" अतो घ्नन्ति, "मम वा पीडां कृतवन्त' इत्यतो हन्ति । तथा अन्ये वर्तमानकाल एव "हिनस्ति अस्मान् सिंहोऽन्यो वे"ति घ्नन्ति । तथा अन्ये "अस्मानयं हिसिष्यती''ति अनागतमेवे सर्पादिकं व्यापादयन्ति ॥५०-५२।।
____ एवं अनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदर्श्य उद्देशकार्थं उपसञ्जिहीर्षुराह[सू०] एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिणाया भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिणाया भवंति ॥५३॥ [सू०] तं परिणाय मेधावी णेव सयं तसकायसत्थं समारभेज्जा, णेवऽण्णेहिं तसकायसत्थं समारभावेज्जा, णेवऽण्णे तसकायसत्थं समारभंते समणुजाणेज्जा ॥५४॥ [ सू०] जस्सेते तसकायसत्थसमारंभा परिणाया भवंति से हु मुणी परिणातकम्मे त्ति बेमि ॥५५॥
॥ सत्थपरिण्णाए छट्ठो उद्देसओ सम्मत्तो ॥ एत्थ सत्थमित्यादि । प्राग्वद् वाच्यम्, यावत् स एव मुनिः त्रसकायसमारम्भविरतत्वात् परिज्ञातकर्मत्वात् प्रत्याख्यातपापकर्मत्वाद् इति ब्रवीमि, भगवतः त्रिलोकबन्धोः परमकेवलालोकसाक्षात्कृतसकलभुवनप्रपञ्चस्य उपदेशादिति ॥५३-५५॥
॥ षष्ठोद्देशकः समाप्तः ॥छ।
टि० १. ०महिषादयः ग ॥ २. मे त्ति हिंसित० ख ग च ॥ ३. ०व केसर्यादिकं ग । ०व सर्पादि व्या० घ ङ ॥ ४. प्राग्वद् भावनीयम् या० ख च ॥ ५. परिज्ञातदोषत्वात् ख ॥ ६. इति शस्त्रपरिज्ञाषष्ठोद्देशकः ।छ।। ङ ॥ ७. परिसमाप्तः ।छ।। ख ।।
१३७