________________
[श्रु०१।अ०१। उ०६। सू०५२] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् खलु मारे, एस खलु निरए।
इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहि सत्थेहिं तसकायकम्मसमारंभेणं तसकायसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति ।
लज्जमाणेत्यादि । पूर्ववद् व्याख्येयं यावत् अण्णे वऽणेगरूवे पाणे विहिंसइ त्ति। यानि कानिचित् कारणानि उद्दिश्य त्रसवधः क्रियते तानि दर्शयितुमाह
से बेमि- अप्पेगे अच्चाए वधेति, अप्पेगे अजिणाए वधेति, अप्पेगे मंसाए वहेंति, अप्पेगे सोणिताए वधेति, अप्पेगे हिययाए वहिति, एवं पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए नहाए ण्हारुणीए अट्ठिए अट्ठिमिंजाए अट्ठाए अणट्ठाए ।
अप्पेगे हिंसिंसु मे त्ति वा, अप्पेगे हिंसंति वा, अप्पेगे हिंसिस्संति वा णे वधेति ॥५२॥
से बेमीत्यादि । तदर्थमहं ब्रवीमि यदर्थं प्राणिनः तदारम्भप्रेवृत्तैः व्यापाद्यन्त इति । 'अप्येकेऽर्चायै जन्ति' अपिः उत्तरापेक्षया समुच्चयार्थः, एके-केचन तदर्थित्वेनातुराः, अर्च्यते असौ आहारा-ऽलङ्कारविधानैः इति अर्चा देहः, तदर्थं व्यापादयन्ति । तथा हिलक्षणवत्पुरुषमक्षतमव्यङ्ग व्यापाद्य तच्छरीरेण विद्यामन्त्रसाधनानि कुर्वन्ति, उपयाचितं वा यच्छन्ति दुर्गादीनामग्रतः, अथवा विषं येन भक्षितं स हस्तिनं मारयित्वा तच्छरीरे प्रक्षिप्यते पश्चाद् विषं जीर्यति । तथा अजिनार्थं चित्रक-व्याघ्रादीन् व्यापादयन्ति; एवं मांस-शोणितहृदय-पित्त-वसा-पिच्छ-पुच्छ-वाल-शृङ्ग-विषाण-दन्त-दंष्ट्रा-नख-स्नायु-अस्थिअस्थिमिञ्जास्वपि वाच्यम् । मांसार्थं सूकरादयः, त्रिशूलालेखार्थं शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वा मनन्ति, पित्तार्थं मयूरादयः, वसार्थं व्याघ्र-मकर-वराहादयः, पिच्छार्थं मयूर-गृद्धादयः, पुच्छार्थं रोज्झादयः, वालार्थं चमर्यादयः, शृङ्गार्थं रुरु-खड्गादयः, तत् किल शृङ्गं पवित्रमिति याज्ञिका गृह्णन्ति, विषाणार्थं हस्त्यादयः, दन्तार्थं शृगालादयः
टि० १. यदर्थमहं प्राणि० क ।। २. ०प्रवृत्तौ व्यापा० च ॥ ३.०षमव्यङ्गंक घ ङ। ०षमक्षतव्यङ्गं ख ॥ ४. ०लालेख्यार्थं ग ॥ ५. ०त्वा समश्नन्ति ख ॥ ६. शळं याज्ञिकाः पवित्रमिति गृ० च ॥
१३६