SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ शाक्यादीनामन्यथावादि-कारित्वम् [श्रु०१। अ०१। उ०६। सू०५२] दुःखाभ्यां सर्वत्र नरकादिषु जङ्घन्यन्ते प्राणिनः, अतः त्रासपरिगतमनसः सर्वदा अवगन्तव्याः । एवं सर्वत्र दिक्षु अनुदिक्षु च त्रसाः सन्तीति गृह्णीमः । दिग्-विदिग्व्यवस्थिताः त्रसाः त्रसन्तीति उक्तम्, कुतः पुनः त्रस्यन्ति ? यस्मात् तदारम्भवद्भिः ते व्यापाद्यन्ते । किं पुनः कारणं ते तान् आरभन्ते ? इत्याह तत्थ तत्थेत्यादि । तत्र तत्र तेषु तेषु कारणेषु उत्पन्नेषु वक्ष्यमाणेषु अर्चा-ऽजिनशोणितादिषु च पृथग विभिन्नेषु प्रयोजनेषु, पश्य इति शिष्यचोदना । किं तद् ? इति दर्शयति-मांसभक्षणादिगृद्धा आतुराः = अस्वस्थमनसः, परिः समन्तात् तापयन्ति = पीडयन्ति नानाविधवेदनोत्पादनेन प्रणव्यापादनेन वा तदारम्भिणः त्रसानिति । येन केनचिद् आरम्भेण प्राणिनां सन्तापनं भवतीति दर्शयन्नाह संतीत्यादि । सन्ति विद्यन्ते प्रायः सर्वत्रैव प्राणाः, प्राणिनः पृथग् =विभिन्नाः द्वि-त्रि-चतुः-पञ्चेन्द्रियाः श्रिताः-पृथिव्यादिश्रिताः । एतच्च ज्ञात्वा निरवद्यानुष्ठायिना भवितव्यमिति अभिप्रायः ॥४९॥ अन्ये पुनः अन्यथावादिनो अन्यथाकारिणः इति दर्शयन्नाह[सू०] लज्जमाणा पुढो पास । 'अणगारा मो 'त्ति एगे पवदमाणा, जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेणं तसकायसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति ॥५०॥ [ सू०] तत्थ खलु भगवता परिण्णा पवेदिता-इमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए जाती-मरण-मोयणाए दुक्खपडिघायहेतुं से सयमेव तसकायसत्थं समारभति, अण्णेहिं वा तसकायसत्थं समारभावेति, अण्णे वा तसकायसत्थं समारभमाणे समणुजाणति । तं से अहिताए, तं से अबोधीए ॥५१॥ [सू०] से त्तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं इहमेगेसिं णातं भवति- एस खलु गंथे, एस खलु मोहे, एस टि० १. अस्थ्यजिन० घ ॥ २. किं तत् पश्य ? इति दर्श० कप्रतिमृते || ३. प्राणिव्या० ग || वि०टि० + “अर्चा इति शरीरम्" जै०वि०प० ॥ १३५
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy