________________
[श्रु०१। अ०१। उ०६। सू०४९] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
"प्राणा द्वि-त्रि-चतुः प्रोक्ताः, भूतास्तु तरवः स्मृता । जीवाः पञ्चेन्द्रियाः प्रोक्ताः, शेषाः सत्त्वाः इतीरिताः ॥" [ ]
यदि वा शब्दव्युत्पत्तिद्वारेण समभिरूढनयमेतेन भेदो दृष्टव्यः, तद्यथा- सततप्राणधारणात् प्राणाः, कालत्रयभवनाद् भूताः, त्रिकालजीवनाद् जीवाः, सदाऽस्तित्वात् सत्त्वा इति । तदेवं विचिन्त्य प्रत्युपेक्ष्य च यथा सर्वेषां जीवानां प्रत्येकं परिनिर्वाणं सुखं तथा प्रत्येकं असातं अपरिनिर्वाणं महाभयं दुःखमहं ब्रवीमि। तत्र दुःखयतीति दुःखम्, तद्विशेष्यते-किंविशिष्टम् ? असातम्, असवैद्यकर्मीशविपाकजमित्यर्थः; तथा अपरिनिर्वाणम् इति समन्तात् सुखं परिनिर्वाणम्, न परिनिर्वाणं अपरिनिर्वाणं, समन्तात् शरीरमनःपीडाकरमित्यर्थः; तथा महाभयम् इति महच्च तद् भयं च महाभयम्, नातः परं अन्यदस्तीति महाभयम्, तथा हि-सर्वेऽपि शारीरान्मानसाच्च दुःखादुद्विजन्ते प्राणिन इति । इतिशब्द एवमर्थे, एवमहं ब्रवीमि सम्यगुपलेब्धतत्त्वो यत् प्रागुक्तमिति । एतच्च ब्रवीमीत्याह
तसंति पाणा पदिसो दिसासु य । तत्थ तत्थ पुढो पास आतुरा परितावेंति । संति पाणा पुढो सिता ॥४९॥
तसंतीत्यादि । एवंविधेन च असातादिविशेषणविशिष्टेन दुःखेन अभिभूताः त्रसन्ति= उद्विजन्ते, प्राणा इति प्राणिनः, कुतः पुनरुद्विजन्ते ? इत्याह- प्रगता दिक् = प्रदिग्, विदिग् इत्यर्थः, ततः प्रदिशः सकाशादुद्विजन्ते । तथा प्राच्यादिषु च दिक्षु व्यवस्थिताः त्रस्यन्ति । एताश्च प्रज्ञापकविधिविभक्ता दिशोऽनुदिशश्च गृह्यन्ते, जीवव्यवस्थानश्रवणात् । ततश्च अयमर्थः प्रतिपादितो भवति काक्वा- न काचिद् दिग् अनुदिग् वा यस्यां न सन्ति त्रसाः, त्रस्यन्ति वा न यस्यां स्थिताः कोशिकारकीटवत् । कोशिकारकीटो हि सर्वदिग्भ्यो अनुदिग्भ्यश्च बिभ्यदात्मसंरक्षणार्थं वेष्टनं करोति शरीरस्येति । भावदिगपि न काचित् तादृशी अस्ति यस्यां वर्तमानो जन्तुर्न त्रस्येत्, शारीर-मानसाभ्यां
टि० १. ०याः ज्ञेयाः, शेषाः सत्त्वाः प्रकीर्तिताः च ॥ २. ०मताद् भेदोऽभ्युपगन्तव्यः । तद्यथा ख च ॥ ३. ०लब्धसत्त्वो क ॥ ४. ०रुद्विजन्तीति दर्शयति-प्रगता ख ग च ॥ ५. विदिश इत्य० ग ॥ ६. ०नुदिशो वा गृ० च ।
१३४