________________
अज्ञमन्दस्य संसार:
[श्रु०१ । अ०१ । उ०६ । सू०४९] बाला-ऽङ्गनादिजनप्रत्यक्षप्रमाणसमधिगम्याः । 'सन्ति च' अनेन शब्देन त्रैकालिकमस्तित्वं प्रतिपाद्यते त्रसानाम्, न कदाचिद् एतैः विरहितः संसारः सम्भवतीति । ऐतदेव दर्शयति
न
एस सेंसारे त्ति पवुच्चइ त्ति । एषः अण्डजादिप्राणिकलापः संसारः प्रोच्यते, अतो अन्यः त्रसानां उत्पत्तिप्रकारो अस्तीति उक्तं भवति । कस्य पुनरत्र अष्टविधभूतग्रामे उत्पत्तिः भवति ? इत्याह
मंदस्सावियाणओ । मन्दो द्विधा - द्रव्य - भावभेदात् । तत्र द्रव्यमन्दोऽतिस्थूलो अतिकृशो वा । भावमन्दोऽपि अनुपचितबुद्धिर्बालः कुशास्त्रवासितबुद्धिर्वा, अयमपि सबुद्धेरभावाद् बाल एव । इह भावमन्देन अधिकारः । मन्दस्य इति बालस्य अविशिष्टबुद्धेः अत एव अविजानतः हिता - ऽहितप्राप्ति - परिहारशून्यमनसः इति एषः अनन्तरोक्तः संसारो भवतीति । यद्येवं ततः किम् ? इत्यत आह
णिज्झाइत्ता पडिलेहित्ता पत्तेयं परिणिव्वाणं सव्वेसिं पाणाणं सव्वेसिं भूताणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अस्सातं अपरिणिव्वाणं महब्भयं दुक्खं ति बेमि ।
निज्झाइएत्यादि । एवं इमं त्रसकायं आगोपाला - ऽङ्गनादिप्रसिद्धं निश्चयेन ध्यात्वा= निर्ध्याय, चिन्तयित्वा इत्यर्थः । क्त्वाप्रत्ययस्य उत्तरक्रियापेक्षित्वाद् ब्रवीमीति उत्तरक्रिया सर्वत्र योजनीया इति । पूर्वं च मनसा आलोच्य ततः प्रत्युपेक्षणं भवतीति दर्शयति‘पैंडिलेहित्ते[?त्त]’त्ति प्रत्युपेक्ष्य दृष्ट्वा, यथावदुपलभ्य इत्यर्थः, किं तद् ? इति दर्शयतिप्रत्येकम् इति एकमेकं त्रसकायं प्रति, परिनिर्वाणं सुखम्, प्रत्येकसुखभाजः सर्वेऽपि प्राणिनः, न अन्यदीयं अन्य उपभुङ्क्ते सुखमित्यर्थः । एष च सर्वप्राणिधर्म इति दर्शयतिसर्वेषां प्राणिनां द्वि-त्रि- चतुरिन्द्रियाणाम्, तथा सर्वेषां भूतानां प्रत्येक- साधारण-सूक्ष्मबादर-पर्याप्तका-ऽपर्याप्तकतरूणामिति, तथा सर्वेषां जीवानां गर्भव्युत्क्रान्तिकसम्मूर्छनज-औपपातिकपञ्चेन्द्रियाणाम्, तथा सर्वेषां सत्त्वानां पृथिव्याद्येकेन्द्रियाणामिति । इह च प्राणादिशब्दानां यद्यपि परमार्थतो अभेदः तथापि उक्तन्यायेन भेदो दृष्टव्यः, उक्तं च
टि० १. एतदपि दर्श० क ग ॥ २. संसारो ग ॥ ३. अजानतः च ॥ ४. ० कायमाबाल - गोपाला० घ ॥ ५. ०क्रियापेक्षया ब्रवी० ग ।। ६. पडिलेहित्ति त्ति ख ग ॥
१३३