________________
[श्रु०१। अ०१। उ०६। नि०१५९] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
उद्वर्तनोपपातौ गाथाशकलेन अभिदधाति- निष्क्रमणम्-उद्वर्तनं, प्रवेश:=उपपात:, जघन्येन एको द्वौ त्रयो वा, उत्कृष्टतश्च एवमेव इति प्रतरस्य असङ्ख्येयभागवर्तिप्रदेशपरिमाणाः एव इत्यर्थः ॥१५८॥ साम्प्रतं अविरहितप्रवेश-निर्गमाभ्यां परिमाणविशेषमाह[नि०] निक्खम-पवेसकालो समयादी एत्थ आवलियभागो ।
अंतोमुहुत्तऽविरहो उयहिसहस्साहिया दोण्णि ॥१५९॥ दारं ॥ निक्खमेत्यादि । जघन्येन अविरहिता सन्तता त्रसेषु उत्पत्तिनिष्क्रमो वा जीवानां एकं समयं द्वौ त्रीन् वेत्यादि, उत्कृष्टेन अत्र आवलिकाऽसङ्ख्येयभागमात्रं कालं सन्ततमेव निष्क्रमः प्रवेशो वा । एकजीवाङ्गीकरणेन अविरहः चिन्त्यते गाथापश्चिमार्धेनअविरहः-सातत्येन अवस्थानम्, एकजीवो हि त्रसभावेन जघन्यतो अन्तर्मुहूर्त आसित्वा पुनः पृथिव्यायेकेन्द्रियेषु उत्पद्यते, प्रकर्षेण अधिकं सागरोपमसहस्रद्वयं त्रसभावेन अवतिष्ठते सन्ततमिति ॥१५९॥
___ उक्तं प्रमाणम् । साम्प्रतं उपभोग-शस्त्र-वेदनाद्वारत्रयप्रतिपादनाय आह[नि०] मंसादीपरिभोगो सत्थं सत्थादियं अणेगविहं । दारं ।
सारीर माणसा वेयणा य दुविहा बहुविहा य ॥१६०॥ दारं ॥ मंसा० इत्यादि । मांस-चर्म-केश-रोम-नख-पिच्छ-दन्त-स्नाय्व-ऽस्थि-विषाणादिभिः सकायसम्बन्धिभिः उपभोगो भवति ।
शस्त्रं पुनः शस्त्रादिकम् इति, शस्त्रं खड्ग-तोमर-क्षुरिकादि, तद् आदिः यस्य जला-ऽनलादेः तत् शस्त्रादिकम्, अनेकविधं स्वकाय-परकाय-उभय-द्रव्य-भावभेदभिन्नं अनेकप्रकारं त्रसकायस्य इति ।
वेदना चात्र प्रसङ्गेन उच्यते-सा च शरीरोत्था मन:समुत्था च द्विविधा यथासम्भवम् । तत्राद्या शल्य-शलाकादिभेदजनिता । इतरा प्रियविप्रयोगा-ऽप्रियसम्प्रयोगादि
टि० १. उत्कृष्टतस्तु कप्रतेविना ॥ २. निग्गम० क छ । ३. ०स्साहिए कप्रतिमृते ॥ ४. ०करणेन वाऽविरह० ख ।। ५. उक्तं परिमाणद्वारम् । सा० ख च । उक्तं प्रमाणद्वारम् । सा० ग ।। ६. "त्रिशूलादि" ठटिप्पणी ॥ ७. ० त्रसजीवसम्बन्धि० ख च । ०त्रसकायजीवसम्बन्धि० ग ॥ ८. शस्त्रं इति ख-घप्रत्योरेव ॥ ९. शरीरसमुत्था कप्रत्या विना ॥
१३०