________________
त्रसजीवानां परिमाणम् [श्रु०१। अ०१। उ०६। नि०१५८] विशेषसमुत्थाः, सञ्ज्ञास्तु आहार-भय-परिग्रह-मैथुनाख्याः, अथवा दशभेदाः, अनन्तरोक्ताः चतस्रः, क्रोधाद्याश्च चतस्रः, तथौघसञ्ज्ञा लोकसञ्ज्ञा च, उच्छ्वास-निःश्वासौ-प्राणापानौ, कषायाः कषः संसारः, तस्य आयाः क्रोधादयः, अनन्तानुबन्ध्यादिभेदात् षोडशविधाः, एतानि गाथाद्वयोपन्यस्तानि द्वीन्द्रियादीनां लक्षणानि यथासम्भवं अवगन्तव्यानि इति, न च एवंविधलक्षणकलापसमन्वयो घटदिषु अस्ति, तस्मात् तत्र अचैतन्यं अध्यवस्यन्ति विद्वांसः ॥१५७॥ अभिहितलक्षणकलापोपसञ्जिहीर्षया तथा परिमाणप्रतिपादनार्थं च गाथामाह[नि०] लक्खणमेयं चेव उ पयरस्स असंखभागेमेत्ता ते ।
निक्खमणे य पवेसे एगाईया वि एमेव ॥१५८॥ लक्खणमित्यादि । तुशब्दः पर्याप्तिवचनः, द्वीन्द्रियादिजीवानां लक्षणं लिङ्गं एतावद् एव दर्शनादि परिपूर्णम्, ने अतोऽन्यद् अधिकं अस्तीति ।
परिमाणं पुनः क्षेत्रतः संवर्तितलोकप्रतरासङ्ख्येयभागवर्तिप्रदेशराशिपरिमाणाः त्रसकायपर्याप्तकाः । एते च बादरतेजस्कायपर्याप्तकेभ्योऽसङ्ख्येयगुणाः । त्रसकायपर्याप्तकेभ्यः त्रसकायिका अपर्याप्तका असङ्ख्येयगुणाः । तथा कालतः प्रत्युत्पन्नत्रसकायिकाः सागरोपमलक्षपृथक्त्वसमयराशिपरिमाणा जघन्यपदे, उत्कृष्टपदेऽपि सागरोपमलक्षपृथक्त्वपरिमाणा एवेति, तथा च आगम:
____ "पंडुप्पन्नतसकाइया केवइकालस्स निल्लेवा सिया ? गोयमा ! जहन्नपए सागरोवमसयसहस्सपुहत्तस्स, उक्कोसपदे वि सागरोवमसयसहस्सपुहत्तस्स ।"
[जीवाभि० ३।२।१०२]
टि० १. लक्खणमेवं ठ ॥ २. गमेत्तातो क ठ । ०मेत्ता उ ख ज ॥ ३. नातोऽधिक० क । ४. पडुप्पन्ना तस० घ ङ॥
वि०टि० + "संवर्तितलोकप्रतरासङ्ख्येयभागवर्तिप्रदेशराशिपरिमाणाः त्रस( काय )पर्याप्ताः एतच्च मानं स्वावगाहनया दृष्टव्यम्, अन्यथा विरोधप्रसङ्गात् ।" स०वि०प० । अयमत्राशयःप्रत्युत्पन्नसकायिकापर्याप्ताः सागरोपमलक्षपृथकत्वप्रमाणाः तथा सकलत्रसकायिकपर्याप्तकाः प्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणिप्रदेशराशिप्रमाणाः सन्ति । किञ्च, त्रसकायस्य स्वकायस्थितिः साधिकद्विसहस्रसागरोपमप्रमिता, ततः त्रसकायस्य स्वकायस्थित्या प्रत्युत्पन्नत्रसकायिकराशौ गुणिते सति सकलत्रसकायपर्याप्तकराशिः लभ्यते । सा च श्रेण्याः असङ्ख्येयभागप्रमाणा एव, यतः साधिकद्विसहस्रसागरोपमेन सागरोपमलक्षपृथकत्वे गुणिते सति सागरोपमशतकोटिपृथक्त्वं लभ्यते । तच्च श्रेण्याः असङ्ख्येयभागे वर्त्तते, अतः निर्युक्तौ दर्शिते प्रतरासङ्ख्येयभागप्रमाणेन सह अस्य प्रमाणस्य स्पष्टविरोधः भाति; तस्मात् स०वि०प०टिप्पण्यामुक्तं-निर्युक्तौ दर्शितप्रमाणं स्वशरीरावगाहनया दृष्टव्यम्, अन्यथा पूर्वापरविरोध: स्यात् ।।
१२९