SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ त्रसजीवानामुपभोगप्रपञ्चः [श्रु०१। अ०१। उ०६। नि०१६३] कृता। बहुविधा च ज्वरा-ऽतीसार-कास-श्वास-भगन्दर-शिरोरोग-शूल-*गुदकीलकादिसमुत्था तीव्रा इति ॥१६०॥ पुनरपि उपभोगप्रपञ्चाभिधित्सया आह[नि०] मंसस्स केइ अट्ठा केई चम्मस्स केइ रोमाणं । पिच्छाणं पुच्छाणं दंताणट्ठा वहिज्जंति ॥१६१॥ [नि०] केई वहति अट्ठा केइ अणट्ठा पसंगदोसेणं । कम्मपसंगपसत्ता बंधंति वहंति मारेंति ॥१६२॥ दारं ॥ मंसस्सेत्यादि, केई इत्यादि । मांसार्थं मृग-शूकरादयो वैध्यन्ते । चर्मार्थं चित्रकादयः, रोमार्थं मूषिकादयः, पिच्छार्थं मयूर-गृद्ध-कपिञ्चु-रुडुकादयः, पुच्छार्थं चमर्यादयः, दन्तार्थं वारण-वराहादयः । वैध्यन्त इति सर्वत्र सम्बध्यते । तत्र केचन पूर्वोक्तं प्रयोजनमुद्दिश्य, केचिच्च प्रयोजनमन्तरेणापि क्रीडया, तथाऽपरे प्रसङ्गदोषाद् मृगलक्षक्षिप्तेषु-लेलुकादिना तदन्तरालव्यवस्थिता अनेके कपोत-कपिञ्जलशुक-सारिकादयो हन्यन्ते । तथा कर्म कृष्याद्यनेकप्रकारं तस्य प्रसङ्गः अनुष्ठानम्, तत्र प्रसक्ताः तन्निष्ठाः सन्तः त्रसकायिकान् अनेकान् बध्नन्ति रज्ज्वादिना, नन्ति कशलकुटादिभिः ताडयन्ति, मारयन्ति प्राणैः वियोजयन्तीति ॥१६१-६२।। ___ एवं विधानादिद्वारकलापमुपवर्ण्य सकलनिर्युक्त्यर्थोपसंहाराय आह[नि०] सेसाई दाराई ताई जाइं हवंति पुढवीए । एवं तसकायम्मी निज्जुत्ती कित्तिया ऍसा ॥१६३॥छ॥ फा॥ सेसाइमित्यादि । उक्तव्यतिरिक्तानि शेषाणि द्वाराणि तानि एवं यानि पृथिवीस्वरूपसमधिगमे निरूपितानि । अत एवं अशेषद्वाराभिधानात् त्रसकाये नियुक्तिः कीर्तिता एषा सकला भवतीति अवगन्तव्या इति ॥१६३।। टि० १. हणंति झ ञ ।। २. बध्यन्ते घ ङ च ॥ ३. बध्यन्त ग घ ङ॥ ४. ०श्य नन्ति । केचित् पुनः प्रयो० ख च । ०श्य हन्यन्ते । केचिच्च ग घ ङ॥ ५. ०या नन्ति । तथा० क-घपुस्तके विना ॥ ६. ०कायिकान् बहून् बध्नन्ति ख ग च ।। ७. तेवं ख ॥ ८. एसा ॥१६३॥ छट्ठओ तसकायउद्देसओ ॥छ।। झज। एसा ॥१६३॥ अध्य०१ उद्दे०६॥ठ॥ ९. ०व वाच्यानि यानि ख च ।। १०. सकलाऽभ्युपगन्तव्येति ख ॥ वि०टि० + "गुदकीलिका हरिस' स०वि०प० ॥ १३१
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy